Book Title: Sutra Vyakhayan Vidhi Shatakam
Author(s): Dharmsagar Gani, Labhsagar
Publisher: Mithabhai Kalyanchand Pedhi
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१००
व्याख्यानविधि
तथाभूतः क्रियाकरणं सम्यक्त्वप्राप्तिं चाधिकृत्य सर्वकालं स्वरूपयोग्यताया अधिकरणं भवति । फलोपहितयोग्यतायास्तु अधिकरणं कदाचिदेव भवति, तथाभव्यत्वयोगेन कालादिसामग्र याः कादाचित्कत्वात् । एवं क्षायोपशमिकसम्यक्त्वं तदपगमश्च कस्यचित्तथाभव्यत्वयोगेन एकद्व यादिक्रमेण यावदसंख्येयवारानपि सम्यक्त्वप्राप्तिर्भवति । 'असंखवारा खओवसमे'त्तिवचनात् । सम्यक्त्वापगमे च मिथ्यात्वं पंचानामन्यतरदेव स्यात् । तत्र कारणं तावन्मुख्यवृत्त्या तथाभव्यत्वमेव । तच्च कालादीनां पंचानां मध्ये जीवस्वभावविशेष एव मन्तव्यः । परं मिथ्यात्वेप्वपि आगाढमिथ्यात्वं असदग्रहवतामेव भवति। निश्चयतोऽसद्ग्रहे च सति मार्गानुयायि कृत्यमपि न भवति, सहानवस्थानात् । यदागमः-'मग्गाणुसारित्ति । असग्रहपरित्यागेनैव तत्त्वप्रतिपत्तिर्मार्गानुसारितेति वन्दारुवृत्तौ । अत एवासद्ग्रहः सम्यक्त्वप्राप्तिप्रतिबन्धको मन्तव्यः । स चाभिग्रहिकाभिनिवेशिकयोस्तीव्रत्वेन समानोऽप्याभिनिवेशिकस्य तीव्रतरः, सर्वा शैः शद्धत्वात् । तच्च जैनेऽप्यजैनत्वेन श्रद्धानादिति गाथार्थः ।। ८८ ॥ अथाऽभव्यानां सांव्यवहारिकत्वाभावहेतुसूचिको गाथामाहजं चिअ अज्जप्पभिई, संजायं तं अणंतखत्तो वि। तह तं भविस्सइ पुण, ण होइ सिं जेण ते थोवा ॥८६॥
व्याख्या-यद्-वस्तुजातं, अद्यप्रभृति सजातं, चिअ एवार्थे व्यवहितः सम्बध्यते, तदेव अनन्तकृत्वोऽनन्तशः, अपिरेवार्थे,
For Private And Personal Use Only

Page Navigation
1 ... 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122