Book Title: Sutra Vyakhayan Vidhi Shatakam
Author(s): Dharmsagar Gani, Labhsagar
Publisher: Mithabhai Kalyanchand Pedhi
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६८
व्याख्यान विधि
भवन्ति, तेन कारणेनाऽभव्यजीवाः सांव्यवहारिकादिवचोविषयाःसांव्यवहारिकादिव्यपदेशविषया न भवन्ति । ते पुनरभव्याः सम्यक्त्वप्रतिपतितानामनन्ततमभागवर्तित्वेन सर्वकालं भव्यानामिव व्यवहारित्वभवनासम्भवात् । ननु भो ! व्यावहारिकत्वमपि सर्वजीवसाधारणमेवोक्तम् । यदुक्तं
'सर्वे जीवा व्यवहार्य-व्यवहारितया द्विधा । - सूक्ष्मनिगोदा एवान्त्यास्तेभ्योऽन्ये व्यवहारिणः ॥१॥इति योगशास्त्रवृत्तौ । तेनाऽभव्या अपि भव्यवद् भवन्त्विति चेत् । मैवं, तत्र भव्यानधिकृत्यैव सर्वशब्दप्रयोगात् । ननु भो ! एवमपि 'सूक्ष्मनिगोदा एवाऽन्त्या' इति भणनेन बादरनिगोदजीवा व्यवहारिणो भणिताः । एवं च (व्यवहारराशितोऽपि) बादरनिगोदजीवेभ्यः सिद्धाः अनन्तगुणा एव सम्पद्य रन् । यावन्तो यस्मिन् समये सिद्ध्यन्ति तावन्त एव तस्मिन्नेव समये अव्यवहारराशितो व्यवहारराशावागच्छन्ति । यदाह श्रीजिनभद्रगणिक्षमाश्रमण:
'सिझति जत्तिया किर, इह संववहारजीवरासीओ। इंति अणाइबणस्सइ-रासिओ तत्तिया तम्मि ।१त्ति विशेषणवत्यां। तथा च संसारो भव्यविरहितस्तदानीमेवाभविष्यत् । सूक्ष्मनिगोदजीवानामपि बादरनिगोदजीवेभ्योऽसंख्येयगुणत्वात् । भणितंच-सर्वकालेनापि एकस्य निगोदस्यानन्ततमभागो जीवाः सेत्स्यन्तीति । यदुक्तं-'जइआ होहिइ पुच्छा' इत्यादि प्रागुक्तमिति परस्पराऽसंगतिः स्फुटैवेति चेत् । मैवं, सूक्ष्माश्च
For Private And Personal Use Only

Page Navigation
1 ... 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122