Book Title: Sutra Vyakhayan Vidhi Shatakam
Author(s): Dharmsagar Gani, Labhsagar
Publisher: Mithabhai Kalyanchand Pedhi
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
८८
व्याख्यान विधि
नामपि । तच्च यद्यसांव्यवहारिकरा शिनिपतिता: अत्यन्तवनस्पतयो
न स्युः, ततः कथमुपपद्यते । तस्मादवसीयते अस्त्य सांव्यवहा रिकरा शिरपि यद्गतानां वनस्पतीनामनादिता । किञ्चेयमपि गाथा गुरूपदेशादागता समये प्रसिद्धा
"
'अत्थि अनंता जीवा, जेहिं ण पत्तो तसाइपरिणामो । तेवि अणंताणंता, णिगोअवासं अणुवसंति' ॥१॥
इति प्रज्ञापनावृत्तौ । तथा पूर्वाचार्यवचसाऽपि राशिद्वयं सिद्ध्यति । यदाह श्रीजिनभद्रगणिक्षमाश्रमणः
'सिज्यंति जत्तिआ किर, इह संववहारजीवरासीओ | इति अणाइवणस्सइ-रासीओ तत्तिआ तम्मि' ॥१॥ त्ति विशेषणवत्यां । तथा चिन्तामणिमन्त्रस्तोत्रेऽपि - ' एवं महाभयहर' मित्यादिगाथावृत्तौ भवन्ति गुणभाजनमिति भव्याःसिद्धिगमनयोग्या, ते चाव्यवहारिकनिगोदा अपि भवेयुः । सन्ति हि ते जगति भव्याः, ये कदाचिदपि न सेत्स्यन्ति । तथा च वृद्धाः
'सामग्गिअभावाओ, बवहारिअरासि अप्पवेसाओ | भव्वावि ते अनंता, जे सिद्धिसुहं ण पाविति ॥ १॥ न प्राप्स्यन्तीत्यर्थः । अतस्तद्व्यवच्छेदार्थमाह-जायन्ते व्यावहारिकराशाविति जनाः, भव्याश्च ते जनाश्च ते भव्यजनाः, तेषां हर्षोत्पादक कल्याणपरम्पराया निधानमे (मि)वेत्यादि । एवंच प्राप्तव्यवहारराशीनां नियमेन सिद्धिगमनं भवत्येवेति सिद्धमव सातव्यं । अत्र हि प्रज्ञापनावृत्तिकर्तुरभिप्रायेण सूक्ष्मपृथिव्यादिजीवा निगोद
For Private And Personal Use Only

Page Navigation
1 ... 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122