Book Title: Sutra Vyakhayan Vidhi Shatakam
Author(s): Dharmsagar Gani, Labhsagar
Publisher: Mithabhai Kalyanchand Pedhi
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्याख्यानविधि
उक्कोसं तिरिअगई-असन्नि-एगिदि-वण-णपुंसेसु । भमिओ आवलिअअसंख-भागसमपुग्गलपरट्टे' ॥२।। इति कायस्थितिस्तोत्रे । आवलिका च कालविशेषः प्रवचने प्रतीतः । अत एवोत्कृष्टो वनस्पतिकालो यः प्रवचने एतावानेव भणितः । स च व्यावहारिकभव्यानधिकृत्यैवोक्तोऽवसातव्यः । तथाहि-'वणस्सइकाइआ णं पुच्छा, जहण्णेणं अंतोमुहुत्तं, उक्कोसेणं अणंतं कालं, अणंता उम्सप्पिणीओसप्पिणी कोलओ, खित्तओ अणंता लोगा असंखेज्जा पुग्गलपरट्टा' इति प्रज्ञापना १८पदे । यदि चेदं सूत्रं सांव्यवहारिकजीवापेक्षं न म्यात , तर्हि सर्वेषामपि भव्यानां मुक्तिसिद्धौ मुक्तिपथव्यवच्छेदः प्रसज्येत, तावत्कालप्रमाणानां भव्यानां परिमितत्वात् । अत एव प्रज्ञापनावृत्तिकृता सांव्यवहारिका असांव्यवहारिकाश्चेति राशिद्वयं युक्त्या समथितं । तथाहि—'सकाइए दुविहे पं० २० -अणादीए वा अपज्जवसिए १, अणादीए वा सपज्जवसिए २'त्ति प्रज्ञापना १८ पदे। एतवृत्तिर्यथा तत्र यः संसारपारगामी न भविष्यति सोऽनाद्यपर्यवसितः, कदाचिदपि तस्य कायव्यवच्छेदासम्भवात् । यस्तु मोक्षमधिगन्ता सोऽनादिसपर्यवसितः, तस्य मुक्त्यवस्थासम्भवे सर्वात्मना शरीरपरित्यागोदित्यादि यावत् । किंचैवं यावत् वनस्पतीनां निलेपनमागमे प्रतिषिद्धं, तदपीदानी प्रसक्तं । कथमिति चेत् । उच्यते-इह हि प्रतिसमयं असंख्येया वनस्पतिभ्यो जीवा उद्वर्तन्ते, वनस्पतीनां च कायस्थितिपरिमाणमसंख्येयाः पुद्गलपरावर्ताः, ततो यावन्तोऽसंख्येयेषु पुद्गल
For Private And Personal Use Only

Page Navigation
1 ... 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122