Book Title: Sutra Vyakhayan Vidhi Shatakam
Author(s): Dharmsagar Gani, Labhsagar
Publisher: Mithabhai Kalyanchand Pedhi

View full book text
Previous | Next

Page 102
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir शतकम्। ६३ निगोदजीवेभ्यः सिद्धा अनन्तगुणा एव सम्पद्य रन् । एतच्चासम्भवि, तावतां जीवानामेवाभावात् । सिद्धाश्च सर्वकालेनाप्येकस्य निगोदस्यानन्ततमभागवर्तिनः स्युः । यदुक्तं'जइआ होही पुच्छा, जिणाण मग्गंमि उत्तरं तइआ । इक्कस्स णिगोअस्स य, अणंतभागो य सिद्धिगओ' ॥१॥त्ति । तथा च सिद्धं सूक्ष्मबादरनिगोदेष्वेव सर्वकालं व्यवहारिणां स्थितिः । व्यावहारिकाणां तु सामान्यतः सर्वकालं तादवस्थ्येऽपि विशेषतः प्रतिजीवमुत्कर्षत आवलिकाऽसंख्येयभागपुद्गलपरावर्तस्थितिः । तत उर्ध्व नियमात् सिद्धिरेव तेषां भवेत् । तत्र सम्मतिस्तु प्रागुपदर्शितैव । यत्तु क्वचिदाधुनिकप्रकरणादौ प्रज्ञापनाद्यागमविरुद्धानि वचनानि भवन्ति । तच्च तीर्थान्त. तिनामसद्ग्रहाभावादनाभोग एव कारणम् । अनाभोगस्तु महतामपि भवति, तस्य च छद्मस्थमात्रस्य सत्त्वेन छद्मस्थलिङ्गत्वात् । यदुक्तं'न हि नामाऽनाभोगश्छद्मस्थस्येह कस्यचिन्नास्ति । ज्ञानावरणाय हि, ज्ञानावरणप्रकृति कर्म' ॥१॥इति। तीर्थबाह्यानां तु मिथ्यादृशामज्ञानमेव, तच्च सर्ववस्तुविषयकमिति अनाभोगाऽज्ञानयोविंशषो बोध्यः । ननु भो ! सांव्यवहारिकजीवानामनन्तपुद्गलपरावर्ताः अपि सम्भवन्ति । आवलिकाऽसंख्येयभागपुद्गलपरावर्तान्तरितस्यापि भूयो भूयः परिभ्रमणस्योक्तत्वात् । यदुक्तं-एते च निगोदे वर्तमानाः जीवा द्विधा, तद्यथा-सांव्यवहारिका असांव्यवहारिकाश्च । तत्र ये सांव्यव For Private And Personal Use Only

Loading...

Page Navigation
1 ... 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122