Book Title: Sutra Vyakhayan Vidhi Shatakam
Author(s): Dharmsagar Gani, Labhsagar
Publisher: Mithabhai Kalyanchand Pedhi
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्याख्यान विधि
वर्तसमयप्रमाणा व्यवहारिणो जीवा भवन्ति । निदानं तावत् तावता कालेन तथाभव्यत्वयोगेन यथासम्भवं सर्वेषामपि व्यवहारिणां नियमेन सिद्धिगमनमेव । एवं च प्रकृते बाधकयुक्तरेवाभावाद् युक्तिगम्ये वस्तुनि सम्यगविश्वासो युक्त एव । अत एव प्रज्ञापनावृत्तिकृतापि युक्तिपुरस्कारेणैव राशिद्वयं व्यवस्थापितं प्राक् प्रदर्शितं । तत्र युक्तेर्व्याप्तिरूपता चैवं-यथा अन्यत्र पर्वते वह्नि धुमान्यथानुपपत्तेः । एवमस्तीह अव्यवहारराशिः, व्यवहारित्वभवनसिद्धिगमनयोरपर्यवसितत्वान्यथानुपपत्तेः । अत एवाऽऽगमतुल्यैव यक्तिरपि मन्तव्याः । यदागमः-- 'तं तह वक्खाणिज्जं, जहा जहा तस्स अवगमो होइ । आगमिअमागमेणं, जुत्तीगम्मं तु जुत्तीए' ॥१॥ति पंचवस्तुके।
एतेन बादरनिगोदजीवप्रभृतयः सर्वऽपि जीवा अनादिसूक्ष्मनिगोदेभ्यो निर्गताः सन्त एव सांव्यवहारिकव्यपदेशभाजो भवन्तीति पराकूतमपि परास्तं। सर्वेषामपि जीवानां सिद्धिप्राप्तिप्रसक्तौ संसारस्थितेरुच्छेदापत्तेः । तत्कथं ? इति चेत् । उच्यतेयावन्तः सिद्धयन्ति तावन्त एवाव्यहारराशितो निर्गत्य व्यावहारिका भवन्ति । एवं च तथा भव्यत्वयोगेन यथासम्भवं सर्वकालमसांव्यवहारिकजीवराशेविनिर्गत्य व्यावहारिकभवनेन व्यावहारिकजीवराशेश्च सिद्धभवनेन असांव्यवहारिक जीवराशेहीन्या सिद्धानां च वृद्ध्या तादवस्थ्याभाव एव । तादवस्थ्यं च व्यावहारिकजीवानां संख्यामधिकृत्यैव मन्तव्यम् । यदि च बादरनिगोदजीवा व्यावहारिका उच्यन्ते, तर्हि सूक्ष्मबादर
For Private And Personal Use Only

Page Navigation
1 ... 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122