Book Title: Sutra Vyakhayan Vidhi Shatakam
Author(s): Dharmsagar Gani, Labhsagar
Publisher: Mithabhai Kalyanchand Pedhi

View full book text
Previous | Next

Page 103
________________ Shri Mahavir Jain Aradhana Kendra ६४ www.kobatirth.org व्याख्यान विधि हारिकास्ते निगोदेभ्य उद्धृत्य शेषजीवराशिमध्ये समुत्पद्यन्ते तेभ्य उद्धृत्य केचिद् भूयोऽपि निगोदमध्ये समागच्छन्ति । तत्राप्युत्कर्षतः आवलिका संख्येयभागगतसमयप्रमाणान् पुद्गलपरावर्तान् स्थित्वा भूयोऽपि शेषजीवेषु मध्ये समागच्छन्ति । एवं भूयोभूयः सांव्यवहारिकजीवाः गत्यागतीः कुर्वन्तीति संग्रहणी - वृत्ताविति चेत् । मैवं भूयोभूयः परिभ्रमणेऽपि उक्ताऽसंख्येयपुद्गलपरावर्तीतिक्रमणस्याभावात् आवलिका संख्येयभागपुद्गलपरावर्तानामसंख्येयत्वमेवेति ( प्रतीतौ ) कुतो भूयोभूयः शब्देनाऽऽनन्त्यकल्पनाया गन्धोऽपि । तेन भूयोभूयः परिभ्रमण - ऽपि असंख्यातत्वं तु तदवस्थमेव । अत एतावता कालेन व्यावहारिकाणां सर्वेषामपि सिद्धिर्भणितेति प्रागुपदर्शितमिति गाथार्थः ॥८२॥ , Acharya Shri Kailassagarsuri Gyanmandir अथ सांव्यवहारिकभव्यानामावलिकाऽसंख्येयभागपुद्गलपरावर्तकालादूर्ध्वं किं स्यादित्याह -- तेण परं सिद्धिगई, तेसिंणिअमेण हुज्ज जिणभणिआ । जं ते पुणो वि अव्यवहारितं नेव पाविति ॥ ८३ ॥ व्याख्या - तेन -- ततः, परं-उक्तलक्षणकालादूर्ध्वं तेषां - सांव्यवहारिकाणां नियमेन - निश्चयेन, सिद्धिगति : - मुक्तिलक्षणा पंचमगतिर्भवेत् । किंलक्षणा सिद्धिगतिः ? जिनभणिता-तीर्थंकरोपदिष्टा । तत्र सम्मतिस्तु प्रज्ञापनावृत्तिरेव । सा च प्राक् प्रदशिता । अथोत्तरार्द्धेन मुक्तिगमनं निश्चिनोति जं ते पुणोदीत्यादि । यत् - यस्मात् ते व्यवहारिणः पुनरव्यवहारित्वं नैव For Private And Personal Use Only

Loading...

Page Navigation
1 ... 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122