Book Title: Sutra Vyakhayan Vidhi Shatakam
Author(s): Dharmsagar Gani, Labhsagar
Publisher: Mithabhai Kalyanchand Pedhi

View full book text
Previous | Next

Page 77
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्याख्यान विधि किलक्षणाः १ गुरूपदेशस्यानायत्ताः-गुरुपदेशमन्तरेण निजनिजमार्गप्रवर्तका इत्यर्थः । गुरूपदेशाऽऽयत्तप्रवृत्तिमन्तरेण शिष्यत्वं न स्यात्, शिष्यत्वाऽभावे च गुरुत्वं न स्यात् । अर्थादेवस्वरूपा एवेति भावः। 'सीसस्स हुंति सीस'त्ति । कस्यचिदपि शिष्यत्वमन्तरेण गुरुत्वं न भवत्येव, गुरुत्वशिष्यत्वयोः सामानाधिकरण्यात् । तेन न भगवति श्रीमहावीरे व्यभिचारः । तस्य शिष्यत्वाऽभावेन गुरुत्वस्याप्यभावात्, किन्तु देवत्वमेव । यच्च धर्माऽऽचार्यत्व-प्रव्राजनाऽऽचार्यत्वादिगुरुत्वव्यपदेशः, स च तमेव तीर्थकरमधिकृत्यौपचारिको मन्तव्यः। अत एव तेषामपि देवत्वेन श्रद्धानं तीर्थकृत्येव । तेन शिष्यत्वं कस्यचिद्देवतायत्तं गौतमादीनामिव, कस्यचिच्च गुर्वायत्तं जम्बूस्वाम्यादीनामिव, परमुभयथापि शिष्यत्वगुरुत्वयोः सामानाधिकरण्यमेव । अत एव सर्वेषामपि सम्यगदृशां आसतामन्ये, तीर्थकराणामपि देवत्वेन श्रद्धानमर्हत्येव, गुरुत्वेन श्रद्धानं गौतमादिषु सुसाधुष्वेव, धर्मत्वेन श्रद्धानं केवलिप्रज्ञप्तज्ञानादिष्वेवेति बोध्यम्। अन्यथा सम्यगदृष्टित्वासम्भवात् । अत एव चन्द्रप्रभाचार्यादीनां नवीनमार्गप्रकाशने गुरूपदेशानपेक्षणं देवत्वेनैव (देवत्वं) तदीयमार्गे, गुरुत्वं च तदपत्येषु, धर्मत्वं च तदुपदिष्टज्ञानादावित्यर्थाद् बोध्यम् । जैनाऽऽभासत्वं च तेषां देवगुरुधर्मधार्मिकाऽनुष्ठान-तद्वत्सु प्रायो नामादिभिजनानुकृतिमात्रेणावसातव्यम् । इति गाथार्थः ॥७॥ अथ शिवभूतिचन्द्रप्रभाऽऽचार्यादयो जिनाऽऽज्ञावर्तिनो न भवन्ति, तच्च युक्तमेवेति दर्शयति For Private And Personal Use Only

Loading...

Page Navigation
1 ... 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122