Book Title: Sutra Vyakhayan Vidhi Shatakam
Author(s): Dharmsagar Gani, Labhsagar
Publisher: Mithabhai Kalyanchand Pedhi
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
शतकम्।
नाऽभ्युपगमे जैनमार्गस्यापि तदन्तर्गतत्वेन मिथ्यादृष्टित्वाऽभ्युपगमात् । अत एवेति नियमेनानन्तसंसारिणः, जैननामधारित्वेऽपि जैनप्रवचनेन सह विरोधादिति तात्पर्यमिति गाथार्थः ॥७२॥
अथैवं सति तदीयमुखनिर्गताः धार्मिकशब्दाः श्रोतव्या न वा इति शंकायामाहतम्मुहम्मिअसद्दा, सोउमकप्पा तहा सुदिट्ठीणं । जह गुट्ठमाहिलमुह-धम्मकहासवणपडिसेहो ॥ ७३ ॥
व्याख्या-तेषां पौर्णिमीयकादीनां मुखानि तेभ्योऽर्थान्निर्गताः धार्मिकशब्दाः-मुग्धजनापेक्षया व्यवहारतो धर्मवाचकाः, सुदृष्टीना-सम्यगदृशां, श्रोतुमप्यकल्प्याः । केचित्तीर्थकृद्वचनानुवादाभासरूपा अपि निज २ मार्गव्यवस्थापकोत्सूत्रमिश्रितत्वेन निश्चयतस्तदीयतीर्थकरवचनरूपाः केवलमनर्थरूपा एव । तत्र दृष्टान्तमाह-'जहे'त्यादि । यथा गोष्ठामाहिलः सप्तमो निहवः, तन्मुखाद्धर्मकथाश्रवणं तस्य प्रतिषेधः श्रीसंघन कृत इति शेषः । यदुक्तं
'उवहि १ सुय २ भत्तपाण ३, अंजलिपग्गहे ति य ४ । दायणा य५ णिकाए य ६, अब्भुट्टाणेति आवरे ७॥१॥ किइकम्मस्स य करणे ८, वेयावच्चकरणे इय ९।
समोसरणसन्निसेज्जा १० कहाए अ११ निमंतणे १२ ॥२॥ एस बारसविहो'त्ति उत्तराध्ययनबृहद्वृत्तौ, तदृष्टान्तेनोसूत्रभाषिणां धर्मकथाऽपि न श्रोतव्येति गाथार्थः ॥७३।।
अथ लोकोत्तरमिथ्याशमधिकृत्योक्तातिदेशेन विशेषमाह
For Private And Personal Use Only

Page Navigation
1 ... 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122