Book Title: Sutra Vyakhayan Vidhi Shatakam
Author(s): Dharmsagar Gani, Labhsagar
Publisher: Mithabhai Kalyanchand Pedhi

View full book text
Previous | Next

Page 84
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir शतकम् . ७५ चिद्रोगिणो विषभक्षणमपि रोगविशेषविनाशहेतुर्भवति, तथापि विषभक्षणं सर्वैरपि परिहरणीयमेव । न पुनस्तदृष्टान्तेन अन्यैरपि भक्षणीयं । एवमुत्सूत्रभाषिणोप्युपदेशो मन्तव्य इत्यर्थः । ननु भो ! यद्यपि नियुक्तिभाष्यादौ भणितं, तथापि कालानुभावात् अन्यैरनुक्तत्वेन सदस्यऽप्रकाश्यं भविष्यतीति शंकानिरासार्थमाह-'अणु भणित्ति अनुभणिताः-तथैवोक्ताः, पूर्वसूरिभिः-हरिभद्रसूरिप्रभृतिभिः । तथाहि'इअरेसुवि अ पओसो, णो कायवो भवट्टिई एसा । णवरं विवज्जणिज्जा, विहिणा सइ मांगणिरएणं॥१॥ त्ति उपदेशपदे । वृत्तिर्यथा-'इतरेष्वपि-जिनवचनप्रतिकूलानुष्ठानेष्वपि समुपस्थितदुर्गतिपातफलमोहाद्यशुभकर्मविपाकेषु लोकोत्तरभिन्नेषु, जन्तुषु प्रद्वेषो-मत्सरस्तदर्शने तत्कथायां चाक्षमारूपो, नो-नैव, कर्तव्यः । तत्कि कर्तव्यं १ इत्याह-भवस्थितिरेषा-यतः कर्मगुरखोऽद्यापि अकल्याणिनो जिनधर्माचरणं प्रति प्रहपरिणामा न जायन्ते इति चिन्तनीयम् । नवरं-केवलं, वर्जनीयाः-आलापसंलापविश्रम्भादिभिः परिहरणीयाः, विधिना-विविक्तग्रामनगरवसत्यादिवासरूपेण, सदा-सर्वकालं, मार्गनिरतेन-सम्यगदर्शनादिमोक्षमार्गस्थितेन साधुना श्रावकेण च । अन्यथा तदीयाऽऽलापसंलापसम्भाषणादिना संसर्गकरणेन कुष्ठज्वररोगोपहतसंसर्ग इव तत्तदोषसञ्चारात् इहपरलोकयोरनर्थावाप्तिरेव । अत एवोक्तं 'सीहगुहं वग्धगुहं, उदयं च पलित्तयंपि सो पविसे | असिवं ओमायरिश्र, दुस्सीलजणप्पिओ जो उ॥१॥त्ति । For Private And Personal Use Only

Loading...

Page Navigation
1 ... 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122