Book Title: Sutra Vyakhayan Vidhi Shatakam
Author(s): Dharmsagar Gani, Labhsagar
Publisher: Mithabhai Kalyanchand Pedhi
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
८२
व्याख्यान विधि --
संकेतका नाल्पप्रज्ञावतां गुरुसमीपे संकेतग्रहनिमित्तकत्वं, गृहीतसिद्धान्तसंकेतकानां साधूनां च मध्ये कस्यचित्तथाविधज्ञानावरणीयक्षयोपशमाभावजन्यसंशयादिनिरासार्थं संस्कारोदबोधकत्वमेव | स च संस्कारोऽपि सक तज्ञानजन्यः । सङ्कतस्तु सर्वज्ञमूलकोऽपि गुरुशिष्यक्रमाऽऽयत्त एव स्यात् । साधोरभावे च कस्य संस्कारोबोधकत्वं कस्य वा संकेतग्रहनिमित्तकत्वं भवेत् । 'ग्रामो नास्ति कुतः सीमेति न्यायात् । एतेन पुस्तकस्य ज्ञानजनकत्वमेव प्रयोजनमिति वक्तापि निरस्तो बोध्यः । पुस्तकस्यसिद्धान्तसङ्को नग्रह जनकत्वाभावेन ज्ञानजनकत्वाभावात् । नहि पट्टकाss लिखितजम्बुद्वोपादिवर्तिवर्ष वर्ष घर नदी हदादीनां परिज्ञानमगृहीतसङ्क ेतकस्य कस्यापि जायमानं दृष्टं श्रुतं वा, प्रत्यक्षबाधात् । संकेतग्रहस्तु, गुर्वायत्त एव । गुरुत्वं च शिष्य त्वाऽविनाभावीति प्राक् प्रदर्शितम् । तेन गुरोरपि संकेतग्रहो निजगुर्वायत्त एव । एवं च तावद् वक्तव्यं यावत् सर्वज्ञः श्रीमहावीर इति । एतेन सर्वेऽपि मार्गाः जैनधर्मबुद्धया प्रवर्तमानाः तीर्थराज्ञाऽऽराधका एव भवन्ति । आशयस्य शुद्धत्वादिति निजमतिकल्पनाऽपि परास्ता । जैनाऽऽभासानामनुपपत्तिप्रसक्तेः । किंच - आज्ञा वगधकानां शुभाध्यवसायो दूरे, प्रत्युताऽनन्तानुबन्धिन एवं कषाया भवन्ति । यदागमः 'जे णं गोयमा ! आणा वराहगे. से णं अणंताणुबंधी कोहे, से णं अनंताणुबंधी भाणे, सेणं अनाणुचंधी केअत्रे, सेणं अनंताणुबंधी लोहे -
1
Acharya Shri Kailassagarsuri Gyanmandir
For Private And Personal Use Only
-

Page Navigation
1 ... 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122