Book Title: Sutra Vyakhayan Vidhi Shatakam
Author(s): Dharmsagar Gani, Labhsagar
Publisher: Mithabhai Kalyanchand Pedhi

View full book text
Previous | Next

Page 90
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org - शतकम् । ते चाव्यक्तवेतना एव भवन्ति । एतच्च तीर्थादनन्तरनिर्गतानां शिवभूति - चन्द्रप्रभाचार्य - जिनदत्ताचार्य - पाशचन्द्रानधिकृत्यैवोक्तमवसातव्यम् । तेषां हि पूर्वं तीर्थान्तर्वर्तित्वेन व्यवहारतः सम्यक्त्वमासीत् । तेन नवीन मार्गप्रवर्तनावसरे तीर्थस्य हृदये खड़क्कनात् । अत एवालभ्यमानसम्यक्त्वाः । तदपत्यानां तु मूलतोऽपि सम्यक्त्वप्राणराहित्येन मृतजातकल्पत्वात् । तेन तेषां च न ग्रन्थिभेदोऽपि । सम्मूच्छिमास्तु मूलतोऽपि संज्ञिचेतनारहिताः, अगर्भजातत्वात् । परं केषांचित् दुर्बलधर्माणां सम्यक्त्ववान्तिहेतुत्वेन कृमिविशेषगण्डोलककल्पाः मन्तव्याः । अव्यक्तत्वं च सर्वेषामपि विशिष्टचेतनाराहित्येन समानमेव । एतच्च प्रागनेकथा दर्शितमिति । एतेन केचिद् भ्रम्मग्रहमाहात्म्यात् । श्रीमहावीरव्यवस्थापितं तीर्थं व्युच्छिन्नमपि आस्माकी मार्गप्रवर्तकैः श्रीमहावीरभाषित सिद्धान्तादुद्धृतमिति वदन्तोऽपि निरस्ता बोध्याः । व्युच्छिन्नतीर्थोद्धारस्य केवलिनापि कर्तुमशक्यत्वात् । एतच्चाऽश्रुत्वा केवल्यधिकारे भगवत्यामपि प्रतीतमेव । नह्यवाप्तलेख्यकमात्रेण गृहस्वामी जायमानः कोऽपि केनापि दृष्टः श्रुतो वा ? । किञ्च व्युच्छिन्ने तीर्थे साध्वादीनामप्यभावात् सिद्धान्तपुस्तकमेव न स्यात् । प्रयोजनाभावेन पुस्तकस्य कारकरक्षकयोरभावात् । न च द्रव्यलिग्यायत्तं सिद्धान्तपुस्तकमासीदिति वाच्यम् । द्रव्य लिङ्गिनामपि तदानीमभावात् । तेषां च निवानामिव तीर्थाऽविनाभावित्वात् । नहि ज्ञातिमर्यादां विना अयं ज्ञातिबहिरिति वक्तुं शक्यते । प्रयोजनं च पुस्तकस्य अगृहीतसिद्धांत Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only ८१

Loading...

Page Navigation
1 ... 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122