Book Title: Sutra Vyakhayan Vidhi Shatakam
Author(s): Dharmsagar Gani, Labhsagar
Publisher: Mithabhai Kalyanchand Pedhi

View full book text
Previous | Next

Page 92
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir शतकम्। ८३ इत्यादि श्रीमहानिशीथपञ्चमाध्ययने। एतदपि सम्यक् पर्यालोच्यमिति गाथार्थः ।।७८॥ ___अथ क्रमप्राप्तं लौकिकमिथ्यात्वं विवेचयन्नाह - लोइयमिच्छत्तं पुण, सरूवभेएण हुज्ज चउभे । अभिगहिअ१ मणभिगहियं२, संसइयं३ तह अणाभोगं ।७६ | व्याख्या-लौकिकमिथ्यात्वं पुनः स्वरूपभेदेन-भिन्न-भिन्नम्वरूपेण चतुर्विधं चतुःप्रकारं भवति । तथाहि-आभिग्रहिकं १ अनाभिग्रहिकं २ सांशयिकं ३ अनाभोगं ४ च । तथेति समुच्चये। तत्राऽऽभिग्रहिक सुगतेश्वरादिव्यक्तनामादिभिर्नियतानामेवादेवादीनां देवत्वादिना श्रद्धानात्मकं । यदुक्तं 'अदेवे देवब द्धिर्या, गुरुधीरगुरौ च या।। अधर्मे धर्मब द्धिश्च, मिथ्यात्वं तद्विपर्यया ॥१॥'दिति योगशास्त्रम् । अनाभिग्रहिकं तु सर्वाण्यपि दर्शनानि शोभनानीति श्रद्धानात्मकं गोपालादीनामिव । यत्त केचिज्जैनमार्गमाश्रिता अपि कालानुभावात् अनाभोगवशेन यावन्तोऽर्हदेवादितत्त्ववादिनस्ते सर्वेऽपि शोभना एवेति श्रद्धानभाजः, ते सर्वेप्यनाभिग्रहिकविशेषा मन्तव्याः। जैनमार्गमाश्रितत्वेन सम्यगशामपि केषाञ्चित् सम्यक्त्वनाशहेतुत्वात् । तथा सांशयिक स्वस्वाभिमतमार्गव्यवस्थापनपरायणानि सर्वाण्यपि दर्शनानि शोभनानि उत कतिचित् किंचिद् वेत्यध्यवसायात्मकम् । तथाऽनाभोग: अनामोगेन निवृत्तमनाभोगम । ननु भो! अनाभोगो मिथ्यात्वं कथं स्यात् ? सम्यग्दृशामपि सत्त्वादिति चेत् । सत्यं, न हि वयं For Private And Personal Use Only

Loading...

Page Navigation
1 ... 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122