SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ८२ व्याख्यान विधि -- संकेतका नाल्पप्रज्ञावतां गुरुसमीपे संकेतग्रहनिमित्तकत्वं, गृहीतसिद्धान्तसंकेतकानां साधूनां च मध्ये कस्यचित्तथाविधज्ञानावरणीयक्षयोपशमाभावजन्यसंशयादिनिरासार्थं संस्कारोदबोधकत्वमेव | स च संस्कारोऽपि सक तज्ञानजन्यः । सङ्कतस्तु सर्वज्ञमूलकोऽपि गुरुशिष्यक्रमाऽऽयत्त एव स्यात् । साधोरभावे च कस्य संस्कारोबोधकत्वं कस्य वा संकेतग्रहनिमित्तकत्वं भवेत् । 'ग्रामो नास्ति कुतः सीमेति न्यायात् । एतेन पुस्तकस्य ज्ञानजनकत्वमेव प्रयोजनमिति वक्तापि निरस्तो बोध्यः । पुस्तकस्यसिद्धान्तसङ्को नग्रह जनकत्वाभावेन ज्ञानजनकत्वाभावात् । नहि पट्टकाss लिखितजम्बुद्वोपादिवर्तिवर्ष वर्ष घर नदी हदादीनां परिज्ञानमगृहीतसङ्क ेतकस्य कस्यापि जायमानं दृष्टं श्रुतं वा, प्रत्यक्षबाधात् । संकेतग्रहस्तु, गुर्वायत्त एव । गुरुत्वं च शिष्य त्वाऽविनाभावीति प्राक् प्रदर्शितम् । तेन गुरोरपि संकेतग्रहो निजगुर्वायत्त एव । एवं च तावद् वक्तव्यं यावत् सर्वज्ञः श्रीमहावीर इति । एतेन सर्वेऽपि मार्गाः जैनधर्मबुद्धया प्रवर्तमानाः तीर्थराज्ञाऽऽराधका एव भवन्ति । आशयस्य शुद्धत्वादिति निजमतिकल्पनाऽपि परास्ता । जैनाऽऽभासानामनुपपत्तिप्रसक्तेः । किंच - आज्ञा वगधकानां शुभाध्यवसायो दूरे, प्रत्युताऽनन्तानुबन्धिन एवं कषाया भवन्ति । यदागमः 'जे णं गोयमा ! आणा वराहगे. से णं अणंताणुबंधी कोहे, से णं अनंताणुबंधी भाणे, सेणं अनाणुचंधी केअत्रे, सेणं अनंताणुबंधी लोहे - 1 Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only -
SR No.020783
Book TitleSutra Vyakhayan Vidhi Shatakam
Original Sutra AuthorN/A
AuthorDharmsagar Gani, Labhsagar
PublisherMithabhai Kalyanchand Pedhi
Publication Year1962
Total Pages122
LanguageSanskrit
ClassificationBook_Devnagari, Ritual, & Vidhi
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy