Book Title: Sutra Vyakhayan Vidhi Shatakam
Author(s): Dharmsagar Gani, Labhsagar
Publisher: Mithabhai Kalyanchand Pedhi

View full book text
Previous | Next

Page 85
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्याख्यान विधि प्रागभणितमपि प्रयोजनवशेनेह स्मारितमिति । प्रभृतिशब्दात यावत् श्रीमुनिसुन्दरसूरिप्रमुखाः ग्राह्याः । यतः-उपधानप्रतिक्रान्ति-जिनार्चा दिनिषेधतः । न्यू निता दुःषमादोषात् प्रमत्तजनता प्रियाः ॥१॥ तथा-आज्ञाभङ्गान्तरायोत्था-ऽनन्तसंसारनिर्भयः । सामाचार्योऽपि पाश्चात्यैः, प्रायः स्वैरं प्रवर्तिताः ॥२॥ इति श्रीमुनिसुन्दरसूरिकृतत्रिदशतरंगिण्यां । यथा कालाऽनुभावाल्लोकोत्तरोन्मार्गा भूयांसः, तथा तीर्थान्तर्वत्तिनोऽपि साधवः श्रावकाश्च अनाभोगवशेन जिनाऽऽज्ञारुचयोऽल्पीयांसः प्रायो मन्तव्याः । यदुक्तं 'एअं पाएण जणा, कालाणुभावा इहंपि सव्वेपि । णो सुंदरत्ति तम्हा, आणासुद्धेसु पडिबंधो'॥१॥ त्ति वृत्तिर्यथा-'एवमुक्तोदाहरणवत् प्रायेण-बाहुल्येन, जनालोकाः, कालाऽनुभावात्-वर्तमानकालसामर्थ्यात्, इहाऽपिजैनमतेऽपि, सर्वेऽपि साधवः श्रावकाश्च, नो-नैव, सुन्दरा:शास्त्रोक्ताऽऽचारसाराः वर्तन्ते । किन्त्वनाभोगदोषात् शास्त्रोक्तप्रतिकूलप्रवृत्तयः । इतिः पूर्ववत् । तस्मात् कारणात् आज्ञाशुद्धेषुसम्यगधीतजिनागमाऽऽचारवशात् शद्धिमागतेषु साधुष श्रावकेषु च, प्रतिबन्धो-बहुमानः, कार्थः।' एवं लोकोत्तरमिथ्यादृशो यथा द्रष्टुमप्यकल्प्यतया भणिताः, तथा भाष्यकारोऽपि---- 'जे जिणवयणुत्तिण्णं, वयणं भासंति जे उ मण्णंति । सदिट्ठीणं तदसणंपि संसारबुढिकरं' ।।१।। ति । For Private And Personal Use Only

Loading...

Page Navigation
1 ... 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122