SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir शतकम्। नाऽभ्युपगमे जैनमार्गस्यापि तदन्तर्गतत्वेन मिथ्यादृष्टित्वाऽभ्युपगमात् । अत एवेति नियमेनानन्तसंसारिणः, जैननामधारित्वेऽपि जैनप्रवचनेन सह विरोधादिति तात्पर्यमिति गाथार्थः ॥७२॥ अथैवं सति तदीयमुखनिर्गताः धार्मिकशब्दाः श्रोतव्या न वा इति शंकायामाहतम्मुहम्मिअसद्दा, सोउमकप्पा तहा सुदिट्ठीणं । जह गुट्ठमाहिलमुह-धम्मकहासवणपडिसेहो ॥ ७३ ॥ व्याख्या-तेषां पौर्णिमीयकादीनां मुखानि तेभ्योऽर्थान्निर्गताः धार्मिकशब्दाः-मुग्धजनापेक्षया व्यवहारतो धर्मवाचकाः, सुदृष्टीना-सम्यगदृशां, श्रोतुमप्यकल्प्याः । केचित्तीर्थकृद्वचनानुवादाभासरूपा अपि निज २ मार्गव्यवस्थापकोत्सूत्रमिश्रितत्वेन निश्चयतस्तदीयतीर्थकरवचनरूपाः केवलमनर्थरूपा एव । तत्र दृष्टान्तमाह-'जहे'त्यादि । यथा गोष्ठामाहिलः सप्तमो निहवः, तन्मुखाद्धर्मकथाश्रवणं तस्य प्रतिषेधः श्रीसंघन कृत इति शेषः । यदुक्तं 'उवहि १ सुय २ भत्तपाण ३, अंजलिपग्गहे ति य ४ । दायणा य५ णिकाए य ६, अब्भुट्टाणेति आवरे ७॥१॥ किइकम्मस्स य करणे ८, वेयावच्चकरणे इय ९। समोसरणसन्निसेज्जा १० कहाए अ११ निमंतणे १२ ॥२॥ एस बारसविहो'त्ति उत्तराध्ययनबृहद्वृत्तौ, तदृष्टान्तेनोसूत्रभाषिणां धर्मकथाऽपि न श्रोतव्येति गाथार्थः ॥७३।। अथ लोकोत्तरमिथ्याशमधिकृत्योक्तातिदेशेन विशेषमाह For Private And Personal Use Only
SR No.020783
Book TitleSutra Vyakhayan Vidhi Shatakam
Original Sutra AuthorN/A
AuthorDharmsagar Gani, Labhsagar
PublisherMithabhai Kalyanchand Pedhi
Publication Year1962
Total Pages122
LanguageSanskrit
ClassificationBook_Devnagari, Ritual, & Vidhi
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy