________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
७२
व्याख्यान विधि
भिन्नत्वे सिद्धे सिद्धस्तत्तदभिमतः सिद्धान्तोऽपि भिन्न-भिन्न एव । यद्यपि स सिद्धान्तो जैनाभिमतसूत्रैकदेशरूपः, तथापि स न जिनवचनरूपः । किन्तु तत्तदभिमततीर्थ करवचनरूपः, स्वस्वाभिमतमार्गानाबाधयैव अर्थकरणेन निज २ प्रक्रियारूपतया कल्पितत्वात् । सम्मतिस्तु नन्दी सूत्रवृत्तिः प्राक् प्रदर्शितैव । प्रक्रियायाः प्रणेतारस्तु निज २ मार्गाणामादिकर्तार एव भवन्ति । सिद्धान्तस्य चैकत्वाभ्युपगमे सर्वेषामपि प्रवचनसाधर्मिकत्वापत्त्या परस्परमपि प्ररूपणादिना भेदो न स्यात् । अस्ति च भेदः । तेन यथाऽस्मदभिमतसिद्धान्ते जैनप्रवचनं सम्यगिति क्वापि नोक्तमतो नाऽस्माकं तदङ्गीकारः । तथा सर्वेऽपि जैनाऽऽभासाः प्रक्रियारूपतया विकल्पितं सूत्रैकदेशं सिद्धान्तं पुरस्कृत्य निषेधमुखेन परस्परं ब्रुवाणा मन्तव्याः । परं लौम्पको भणति - अस्मदभिमतसिद्धान्ते जिनप्रतिमा आराध्यतया नोक्ता, अतो नाऽस्माकं तदङ्गीकार इत्यादि । एतच्च लौम्पकस्येव अस्माकं परेषां च सम्मतमेव । यतस्तदभिमतस्तीर्थङ्करो लम्पकनामा लेखकः सर्वसम्मतः । तस्य च प्रतिमा जिनप्रतिमातया विकल्पिता, सा च प्रतिमा आराध्यतया न कस्यापि सम्मता तदंशे (तद्विषयक) विप्रतिपत्तेरेवाभावात् । शेषास्तु जैनाभासाः स्वस्वाभिमततीर्थकर प्रतिमा आराध्येति वदन्तीति विशेषो बोध्यः । एवं च सति सर्वेऽपि जैनाऽऽभासाः तीर्थतीर्थकरयोर्महाशातनाकारिणो मन्तव्याः । सर्वेषामपि स्वस्वाभिमतमार्गाऽतिरिक्तमार्गाणां मिथ्यादृष्टित्वे
Acharya Shri Kailassagarsuri Gyanmandir
For Private And Personal Use Only