Book Title: Sutra Vyakhayan Vidhi Shatakam
Author(s): Dharmsagar Gani, Labhsagar
Publisher: Mithabhai Kalyanchand Pedhi

View full book text
Previous | Next

Page 79
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ७० व्याख्यान विधि त्वेनैव यदुक्तं, ततस्ते भगवत्प्रणीतशास्त्रेभ्यो गौणं समीचीनमर्थलेशमुपादाय पश्चादभिनिवेशतः स्वमत्यनुसारेण तास्ताः स्वप्रक्रियाः प्रपञ्चितवन्तः । उक्तं चसुनिश्चितं नः परतन्त्रयुक्तिष, स्फरन्ति याः काश्चन सूक्तिसम्पदः । तवैव ताः पूर्वमहार्णवोत्थिता, जगत्प्रमाणं जिनवाक्यविग्रुषः ॥१॥ इति नन्दीवृत्तौ २१४ पत्रात्मके पुस्तके १६ पत्रे । ___अत एव ते श्रीमहानिशीथादिकं सूत्रमपि न प्रमाणयन्ति, निज २ प्रक्रियादूषकत्वात् । यत्त वयं जिनोक्तमेव कुर्मः इति वचनं, तत् तदीयप्रक्रियावचनानुवादरूपमेव मन्तव्यम् । कथमन्यथा चतुर्दशीपाक्षिक-स्त्रीजिनपूजा-श्राद्धमुखवस्त्रिकादि यावत् जिनप्रतिमादिकं जिनोक्तमप्यनुक्तं पूर्णिमापाक्षिक-स्त्रीजिनपूजानिषेध-जिनप्रतिमानिषेधादिकं जिनेनानुक्तमप्युक्तमिति भाषते । प्रक्रिया च प्रतिमार्ग भिन्नभिन्नैव भवति । तत्र दृष्टान्तमाह-यथाऽन्यतीथिकानां साङ्ख्यशाक्यादीनां प्रक्रिया भिन्नभिन्नैव भवति । तत्र हेतुमाह-अज्ञानस्यैव माहात्म्यात् । अज्ञानं हि कुत्सितज्ञानं । तच्च मिथ्यादृशामेव भवति । तदपि ज्ञानावरणीयक्षयोपशमवैचित्र्यात् नानाप्रकारं स्यात् । तेन तज्जन्यप्रक्रियापि नानाप्रकारैव स्यात्, 'कारणानुरूपं कार्यमिति वचनात् । सा च निज २ मार्गाणामादिकतृ कृतैव भवति । आदिकर्तृत्वं च तथाभूतमार्गाणामन्यकर्तुरभावेन चन्द्रप्रभाऽऽचार्यादीनामेवेति प्राक् प्रदर्शितं । अत एव निज २ मार्गेषु शास्त्रप्रवृत्तिरपि प्रक्रियानुरोधेनैव स्यात् । तथाहि-'श्री For Private And Personal Use Only

Loading...

Page Navigation
1 ... 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122