Book Title: Sutra Vyakhayan Vidhi Shatakam
Author(s): Dharmsagar Gani, Labhsagar
Publisher: Mithabhai Kalyanchand Pedhi
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्याख्यान विधि
व्याख्या-अनुवादानां विषयाः धर्ममधिकृत्य श्रद्धाऽनुष्ठानवाचकवचांसि भवन्ति । तत्र श्रद्धानं श्रद्धा-स्वाभिमत-देव-गुरुधर्म-तदितरविषयकाऽऽराध्याऽनाराध्यबुद्धिः, अनुष्ठानं च-- धार्मिकबुद्ध्या प्रवृत्तिनिवृत्तिरूपा क्रिया, एतद द्वयं च प्रतिवादिनं भिन्न-भिन्नमेवेति सर्वसम्मतम् । तयोश्च वाचकानि वचनानि प्रतिमार्ग भिन्नभिन्नान्येव । सर्वेषामपि वादिनां भिन्न-भिन्नश्रद्धा-क्रियावत्त्वात् । तैर्वचनैः सह विवादः सर्वेषामपि समान एवेति गाथार्थः ॥ ५९॥ __ अथाऽनुवादोऽपि यथाऽनुवक्तुरनुवादव्यतिरिक्तवचनं भवति, तथाऽऽहअणुवाओ निअवयणं, सम्माइविसेसणेहिं संजुत्तो। तं भासगमासज्ज उ, सच्चमसच्चं च भावाओ ॥ ६ ॥
व्याख्या-अनुवादः सम्यगादिविशेषणैः संयुक्तोऽनुवक्तुरनुवादव्यतिरिक्तं निजवचनं भवति । तच्चेति गम्यम् । तच्चाऽनु(वाद)वक्तुर्वचनं, भाषकं-वक्तारमासाद्यानुवक्तारं प्राप्य भावतः सत्यमसत्यं च भवति । द्रव्यतः सत्योऽप्यनुवादस्तदतिरिक्ताऽनवादकवचनतया परिणतो भावतः सत्यमसत्यं चाऽनुवादकवचनं भवतीत्यक्षरार्थः। भावार्थः पुनरेवं-अनुवादो हि नियमात वचनविषयको भवति । 'उक्तस्य वचनमनुवाद' इति वचनात् । तथैव भगवतीवृत्तावपि भणितम् । स चानवादः सम्यगादिवचनविशेषणविशिष्टोऽनवादकवचनं, तथाहि-अस्माकं देवोऽहन्नेवेति जैनवचनं, अस्माकं देवः सुगत इति सौगतवचनं
For Private And Personal Use Only

Page Navigation
1 ... 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122