Book Title: Sutra Vyakhayan Vidhi Shatakam
Author(s): Dharmsagar Gani, Labhsagar
Publisher: Mithabhai Kalyanchand Pedhi
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
शतकम् ।
५७
अथ सम्यग्दृष्टिलौकिक मिध्यादृष्टिश्चेत्युभावपि अनुवदन्तौ द्रव्यतः सत्यवादिनौ भवतः, तत्र किं कारणमिति परिज्ञानाय
अनुवादस्वरूपमाह
सव्वेवि अणुवाया, णिअमा दव्वाओ सच्चवयणाई | अणुवाए अविवाओ, जमणुष्णं सव्ववाईणं ॥ ५८॥
व्याख्या–सर्वेऽप्यनुवादाः सम्यग्दृशां मिथ्यादृशां च परस्परं यावन्तो भवन्ति तावन्तो नियमात् - निश्चयेन द्रव्यतः सत्यवचनानि भवन्ति । द्रव्यत्वं च वचनविषयानपेक्षत्वेनावसातव्यम् । वचनविषयापेक्षया तु अनुवाद एव न भवति, किन्तु वक्तुर्निजवचनान्तर्गतत्वेन निजवचनतया परिणतो भवति । 'तन्मध्यपतितस्तद्ग्रहणेन गृह्यते' इति न्यायात् वक्तुर्वचनं च भावतः सत्यमसत्यं च भवतीत्य दर्शयिष्यते । अथ सर्वेषामप्यनुवादानां द्रव्यतः सत्यत्वे हेतुमाह - 'अणवाए' इत्यादि । यत् यस्मात् कारणात् सर्ववादिनामनुवादे अन्योऽन्यमविवादो -विवादाभावः, द्रव्यतः सत्यत्वाभावे च नियमेन विवादो भवत्येव, तस्यैव विवादकारणत्वात् । यथा जिनवचनाऽननुवादिभिः पौर्णिमीयकादिभिः सह विवादः । यथा लोकेऽपि गां गजं ब्रुवाणेन सह विवादो निश्चितो भवति । तस्मात् सर्वेषामप्यनुवादानां साम्यमेवेति गाथार्थः ॥ ५८ ॥
अथ विवादकारणान्याह -
अणुवायाणं विसया, सद्धाऽणुट्ठाणवाय गवयाई । पग्गं भिन्नाई, तेहिं विवाओ अ सव्वेसिं ॥ ५६ ॥
For Private And Personal Use Only

Page Navigation
1 ... 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122