Book Title: Sutra Vyakhayan Vidhi Shatakam
Author(s): Dharmsagar Gani, Labhsagar
Publisher: Mithabhai Kalyanchand Pedhi
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
शतकम् ।
,
त्वन्नाम्नैवाभिव्यञ्जितो लुम्पकनामा लेखकः । अत एवाऽऽबालगोपालप्रसिद्धो वृद्धसम्प्रदायोऽपि - 'संवत पनर अठोतरइ जांणि, लुंकु लेहुं मूलनिर्वाणि । तेहनइ शिष्य मिल्यु लखमसी, तेहनई बुद्धि हइयाथो खसी 'त्यादि । यदि च तस्य तीर्थकरत्वं नाभ्युपगम्यते, तर्हि तद्व्यवस्थापितो भवदभिमतजनसमुदायस्तीर्थमपि न भवेत्, अतीर्थकरलुम्पकेन व्यवस्थापितत्वात् । तेन यदि भवदीयः समुदायस्तीर्थं तर्हि लुम्पक एव तीर्थकरः । तथा च शब्दव्युत्पत्तिरपि सम्यग् लुम्पको देवताऽस्येति लौम्पकः । अथवा लम्पकस्यापत्यं लौम्पकः । एवं सर्वत्राऽपि सम्यगुपर्यालोचनया यस्य कस्यापि समुदायस्य आदिकर्ता नामग्राहेण वक्तुं शक्यते, तस्य श्रीमहावीरस्तीर्थकरो न भवत्येव । तदादिकर्तृत्वाभावात् । यथा श्रीमहावीरव्यवस्थापितस्य समुदायस्यादिकर्ता श्रीपार्श्वनाथो न भवति, नामग्राहेण श्रीमहावीरस्योपलभ्यमानत्वात् । एवं चन्द्रप्रभाऽऽचार्यादिव्यवस्थापितसमुदायानां चन्द्रप्रभाऽऽचार्यादय एव तीर्थकराः, न पुनस्तद्व्यतिरिक्ताः श्री ऋषभादयोऽपीति गाथार्थः ।। ६६ ।।
For Private And Personal Use Only
६५
अथ चन्द्रप्रभाऽऽचार्यादिभ्यो जातानां समुदायानां श्रीमहावीरजातत्यभणने सर्वलोक गर्हणीयदूषणमाहजो अण्णाओ जाओ, अण्णं पिअरं व अण्णतित्थयरं । जंपs लोअविरुद्धं, अलज्जओ अहव गयमण्णो ॥ ६७ ॥ व्याख्या - यः पौर्णिमीयकादि - लौम्पकादिसमुदायः, अन्यस्मात् - श्रीमहावीरादपरस्मात् चन्द्रप्रभाऽऽवार्यादेः लुम्पक लेखका
MANA

Page Navigation
1 ... 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122