Book Title: Sutra Vyakhayan Vidhi Shatakam
Author(s): Dharmsagar Gani, Labhsagar
Publisher: Mithabhai Kalyanchand Pedhi
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्याख्यान विधि
पराभिमततीर्थादपरं चातीर्थ-तीर्थ न भवतीति श्रद्धानादित्यक्षरार्थः । भावार्थः पुनरेवं-यद्यपि दिगम्बरो जैननामधारी तथापि निजमतिकल्पितेन लिंगेन सूत्रतोऽपि सिद्धान्तेन चान्यतीर्थिककल्पः, तेन तं परित्यज्य प्रथमं पौर्णिमीयकः प्रष्टव्यः-ननु भो पौर्णिमीयक ! तव वीरजिनस्तीर्थकरः किं भवदभिमततीर्थस्य पौर्णिमीयकसमुदायस्य आदिकतृत्वन औष्ट्रिकाधभिमततीर्थस्यादिकर्तृत्वेन वा १ नाद्यो, भवतोऽप्यनभिमतत्वात् । यतः पौर्णिमीयकसमुदायस्यादिकर्ता चन्द्रप्रभाऽऽचार्यः सर्वसम्मतः । अत एव भवदीयैरप्युक्तं, तथाहि
'श्रीचन्द्रप्रभसूरिराट् स भगवान् प्राचीकशत् पूर्णिमा'मिति पौर्णिमीयकृतक्षेत्रसमासवृत्तिप्रशस्तौ । एवमममतीर्थकृच्चरित्रेऽपि । नापि द्वितीयः, तवानिष्टत्वात्, यतोऽन्यत् , चकारो गम्यः, अन्यच्च-निजसमुदायादपरं यावदस्मदभिमतं तीर्थ चतुर्दशीपाक्षिककृत्यविशिष्टं साध्वादिसमुदायात्मकं तत्कत त्वेन भवतस्तीर्थकरो न भवति । तदतीर्थमिति श्रद्धानात् तीर्थकरत्वाऽतीर्थकरत्वयोः परस्परं विरोधात् । तेन तदादिकर्तृ त्वेनाऽपि भवतस्तीर्थकरो न भवति, किन्तु चन्द्रप्रभाऽऽचार्य एव तीर्थकरो मन्तव्यः, पौर्णिमीयकाभिमतस्य तीर्थस्यादिकर्तृत्वात् । अत एव चन्द्रप्रभाऽऽचार्यादेः देवस्वरूपमग्र दर्शिष्यते। एवं लौम्पकोऽपि वक्तव्यः-नन भो लौम्पक ! तवाभिप्रायेण तीर्थ तावत जिनप्रतिमाप्रतिपन्थिजनसमुदायरूपमेव तस्यादिकर्ता श्रीमहावीरो न भवति, तेन सह साक्षात्परम्परया वा सम्बन्धाऽभावात । किन्तु
For Private And Personal Use Only

Page Navigation
1 ... 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122