Book Title: Sutra Vyakhayan Vidhi Shatakam
Author(s): Dharmsagar Gani, Labhsagar
Publisher: Mithabhai Kalyanchand Pedhi

View full book text
Previous | Next

Page 65
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्याख्यान विधि त्रास्याऽनुवादे अविवादी स्यात्-वचनमात्रस्याऽनुवादमधिकृत्य सम्यग्दृग-मिथ्यादृशोरभेदः एव स्यात् । तेनोभावपि द्रव्यतः सत्यवादित्वमधिकृत्य तुल्यावेव भवत इत्यर्थः । तेनैव सम्यग्दृष्टिवद् लौकिकमिथ्यादृष्टिरपि नोत्सूत्रभाषी स्यात्, जिनवचनाऽपलापित्वाभावात् जिनोक्तानुक्तयोर्याथार्थ्यन भाषणात् । न चैवं लोकोत्तरमिथ्यादृष्टिः सम्भवति । तस्य जिनेनोक्तमप्यनुक्तं, अनुक्तं चोक्तमित्येवंरूपेण जिनवचनाऽननुवादिनः उत्सूत्रभाषित्वात् । एवं देशेनाऽननुवादित्ववद् देशेनाऽनुवादित्वमपि भवति, परं निजवचनाऽविरोधेनैवेति बुद्ध्या अनुवादो व्यवहारतो द्रव्यतः सत्यो, न पुनर्निश्चयतः । जिनोक्तत्वेनाऽनुवादाभिप्रायाभावात् । यथा गोष्ठामाहिलो भणति-जिनेनापरिमितं प्रत्याख्यानं स्पृष्टमबद्धं च कर्म भणितमित्येवमननुवदन्नेव तदविरोधेनैव शेषवचनाऽनुवादी व्यवहारतो देशेन द्रव्यतः सत्यवादी, न पुनर्निश्चयतोऽपि । एवं साम्प्रतीनाः सर्वेऽपि उत्सूत्रभाषिणो वक्तव्याः । नहि अकसिणपवत्तगाणं, विरयाविरयाण एस खलु जुत्तो। संसारपयणुकरणे, दबत्थए कूवदिढतो ॥१॥ त्ति चतुर्विंशतिस्तवनियुक्तिवचनं जिनेन भणितमिति लौम्पको वदति, निजवचनविरोधिवचनेन निजमतोच्छेदापत्तेः । लौकिकमिथ्याप्टिस्तु आस्तामन्यत्, निजमार्गदूषकवचनस्याऽपि अनुवादको भवति । यथाऽर्हन्नस्मदीयं धार्मिकाऽनुष्ठानमधर्मतया भाषते इत्यादिरूपेणाग्रे वक्ष्यते इति गाथार्थः ॥५५॥ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122