Book Title: Sutra Vyakhayan Vidhi Shatakam
Author(s): Dharmsagar Gani, Labhsagar
Publisher: Mithabhai Kalyanchand Pedhi
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्याख्यान विधि
निश्चयत उत्सूत्रमेव | व्यवहारोऽपीह मुग्धजनापेक्षया मन्तव्यः । विदुषां तूभयत्रापि उत्सूत्रमेव । तच्च जिनोक्तमेव न भवति । अतो न जिनोक्तानुवादः। यथा विषसंयुक्तं दुग्धं गव्यं न भवति, तथाभूतस्य दुग्धस्य गोरजातत्वात् । न च गोदध्यादौ व्यभिचार: शंकनीयः। इदं दुग्धमिति व्यवहारं यावन्निजस्वरूपाऽपरित्यागात्। अत एव निश्चयव्यवहाराभ्यां दुग्धमेव । यच्चोक्तमुपधानपञ्चाशके-उत्सूत्रवचनद्वयव्यतिरिक्तं गोष्ठामाहिलोक्तं प्रमाणतया भणितं, तद् व्यवहारतो जिनवचनाऽनुवादरूपत्वेनोक्तमवसातव्यम् । न पुनर्गोष्ठामाहिलोक्तत्वमात्रेणापि । एतद्व्यञ्जकं तु उत्सूत्रद्वयभणनेन शेषं तु सूत्रमेवेति वचनमेव । सूत्रं तु गणधरकृतत्वेन प्रमाणमेव । तदनुवादस्तु तद्वदेव प्रमाणं व्यवहारतो, निश्चयतश्च प्रागवदवसातव्यम् । यदि च निश्चयतोऽपि तदनुवादः प्रमाणं भवेत् , तर्हि गोष्ठामाहिलसमीपे धर्मकथाश्रवणनिषेधानुपपत्तिः प्रसज्येत । न चैवं निश्चयव्यवहारयोविवेकेन भणनमनागमिकं भविष्यतीति शङ्कनीयं, आगमेऽपि तथैव भणनात् । तथाहि
पयमक्खरंपि इक्कंपि, जो न रोएइ सुत्तणिदिट्ट ।
सेसं रोअंतो विहु, मिच्छादिट्टी जमालिव्व ॥ १॥ त्ति पञ्चसंग्रहादौ । अत्र 'शेष रोचयन्नपी' ति भणनेन स्वरुच्यविषयाक्षरा दिव्यतिरिक्तस्य जिनवचनमात्रस्य श्रद्धानं व्यवहारत एव । तदनुसारेण भणनमपि जिनवचनाऽनुवादो व्यवहारत एव । स चानुवादो द्रव्यतः सत्य एव । सर्वेषामप्यनुवादानां
For Private And Personal Use Only

Page Navigation
1 ... 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122