Book Title: Sutra Vyakhayan Vidhi Shatakam
Author(s): Dharmsagar Gani, Labhsagar
Publisher: Mithabhai Kalyanchand Pedhi
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्याख्यान विधि
उम्मग्गमग्गसंपट्टि-आण साहूण गोअमा ! णणं ।
संसारो अ अणतो, होइ अ सम्मम्गणासीणं ॥१॥ ति गच्छाचारप्रकीर्णके । अत्रोन्मार्ग उत्सूत्रभाषिमार्गः, तस्य मार्ग:परम्परा, तत्र सम्प्रस्थितानां मार्गनाशकानां चेत्यादि । तत्र मार्गनाशकत्वं च प्राक प्रदर्शितप्रकारेणावसातव्यम् । शाक्यादिराभिग्रहिकस्तु पृष्टः सन् जैन जैनत्वेन, अजैन चात्मीयं मार्गमजैनत्वेन भाषमाणो द्रव्यतः सत्यवादी । द्रव्यत्वं च जैनमार्ग जैनत्वेन भाषमाणोऽपि सत्यत्वेन श्रद्धानाभावात् । तच्च द्रव्यतः सत्यं भावतः सत्यत्वस्य कारणमपि स्यात् । तेनैव कारणेन शाक्यादिजैनप्रवचनं सम्यगिति सामान्यतः श्रद्धानमात्रेणापि निजमार्गाऽसद्ग्रहपरित्यागेन अव्यक्तसम्यगदृष्टिरित्यभिधीयते । अभिनिवेशिनस्तु दिगम्बरादेः देवोऽर्हन्नेव, नापरः शाक्यादिपरिगृहीतजिनप्रतिमाऽपीतीत्येवं व्यक्त्या श्रद्धानेऽपि निजमार्गाऽसद्ग्रहस्य तादवस्थ्यात् मिथ्यादृष्टित्वमेव । तत्र कारणं तावत् दुरपनेयाऽसद्ग्रहवशेन द्रव्यतोऽपि मृषाभाषित्वमेव । तेन मिथ्यात्वमप्यस्याऽऽगाढतरमेव, असाध्यव्याधिकल्पत्वादिति गाथार्थः ॥५४॥
अथोत्सूत्रभाषी देशेन जिनवचनानुवादी भवति नवेत्याशंक्याहदेसेणं जिणवयणा-णुवाइणो तहवि ते न तहभूआ। णिअवयविरोहिवयणं, जिणिंदवुत्तंपि णो वृत्तं ॥५५॥
व्याख्या-देशेन जिनवचनाऽनुवादिनो भवन्ति. यद्यपीति
For Private And Personal Use Only

Page Navigation
1 ... 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122