Book Title: Sutra Vyakhayan Vidhi Shatakam
Author(s): Dharmsagar Gani, Labhsagar
Publisher: Mithabhai Kalyanchand Pedhi

View full book text
Previous | Next

Page 59
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्याख्यान विधि सम्यक्त्वप्राप्तिहेतुस्तदेव मार्गाऽनुसारीति विकल्पो दर्शित इति गाथार्थः ।। ५२ ॥ __ अथाऽसद्ग्रहपरित्यागहेतुः स्वरूपतः कीदृग् भवतीति प्रसङ्गतो दर्शयतिजं किंचिवि परसमए, णाभिमयं अभिमयं च जिणसमए । सम्मत्ताभिमुहाणं, तं खु असग्गहविणासयरं ॥ ५३॥ व्याख्या-यत् किञ्चिदपि, कत्यं श्रद्धानं वेति विशेप्यपदमध्याहार्य, परसमये-जैनव्यतिरिक्तदर्शने, नाऽभिमतंनिजमार्गत्वेन नाऽङ्गीकृतं, अभिमतं च जैनसमये-जैनशासने, जैनैरात्मीयमार्गत्वेनाऽभ्युपगतमित्यर्थः । सम्यक्त्वाऽभिमुखानां 'तं खु' त्ति । तदेव असद्ग्रहविनाशकरं-सम्यक्त्वसूर्यप्रकाशस्पृष्टानामसद्ग्रहध्वान्तोच्छेदकमित्यर्थः । असद्ग्रहपरित्यागपूर्वकसम्यक्त्वप्राप्तिहेतुत्वात् । न चैवं तन्मार्गाऽभिमताऽकरणनियमादिकमपि तथा। तस्योभयवादिसम्मतत्वेन असद्ग्रहपरित्यागो दूरे, प्रत्युत तदुभयवादिसम्मतं जैनसम्मत्योभावितं निजनिजमार्गदाढ्यहेतुः । अत एव आस्तामन्यः, सर्वज्ञो भगवान् श्रीमहावीरोऽपि उभयवादिसम्मताथै वेदपदैरेव गौतमादीनां संशयोच्छेदं कृतवान्, परकीयसम्मतेनिजमार्गदाढ्यहेतुत्वात् । अन्यथा तदुद्भावनस्य वैयथ्यं स्यात् । यदि चोभयवादिसम्मतं कृत्यं श्रद्धानं वा असद्ग्रहपरित्यागहेतुसर्गाऽनुयायि कृत्यमभविष्यत्, तर्हि सर्वेषामपि व्यक्तमिथ्याशां तत्क्षणमेवाऽसद्ग्रहपरित्यागेन सम्यक्त्वप्राप्तौ व्यक्तमिथ्यात्वमुच्छि For Private And Personal Use Only

Loading...

Page Navigation
1 ... 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122