Book Title: Sutra Vyakhayan Vidhi Shatakam
Author(s): Dharmsagar Gani, Labhsagar
Publisher: Mithabhai Kalyanchand Pedhi
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रातकम् ।
४६
यत्तु ' अहवा सव्वं चिअ वीयरायवयणाणुसारि जं सुकड' मित्यादिचतुः शरणप्रकीर्णकगाथावृत्तौ मिथ्यादृष्टिसम्बन्ध्यपि मार्गानुयायि कृत्यमनुमोदनीयं भणितं, तत् सम्यक्त्वाऽभिमुखमिथ्यादृष्टेरेवाऽवसतव्यम् । स चाऽऽगाढमिथ्यादृष्टिर्न भवत्येव, किन्तु कश्चिदनागाढ मिथ्यादृष्टिर्वक्ष्यमाणमार्गाऽनुयायि कृत्यं कुर्वन्नवसातव्य इति गाथार्थः ॥ ५१ ॥
अथ मार्गाsनुयायि कृत्यं कीदृशं भवतीति दर्शयतिता ससमग्गासग्गह- परिचायनिमित्तमेव जं किच्चं । सम्मत्तकारणं वा, तं खलु मग्गाणुसारिति ॥ ५२ ॥ ।। ।। व्याख्या- 'ता' तस्मात् कारणात् स्वस्वमार्गाः - शाक्यादिदिगम्बरादिदर्शनानि तद्विषयोऽसग्रहः - निज निजगुरूपदेशपरतन्त्ररुचिलक्षणः, तत्परित्यागस्य निमित्तं कारणं यत्कृत्यं, वाअथवा, सम्यक्त्वकारणं-शुद्धश्रद्धानादिहेतु:, तत् खलुखधारणे, तदेव मार्गानुयायि कृत्यं - ज्ञानादिप्राप्त्यनुकूलमित्यक्षरार्थः । भावार्थः पुनरेवं यद्यपि आगाढमिथ्यादृष्टेर्मार्गाऽनुयायि कृत्यं प्रायो न सम्भवति, परं तथापि कस्यचित्तथा भव्यत्वयोगेन मन्दीभूताऽऽगाढमिथ्यात्वस्यासद्द्महपरित्यागद्वारा सम्यक्त्वप्राप्तिः स्यात् । यदागमः - 'मग्गाणुसारिअ'ति । व्याख्या- 'असद्ग्रहपरित्यागेनैव तत्वप्रतिपत्तिर्मार्गानुसारितेति वन्दारुवृत्तौ । तेनाऽसग्रहपरित्यागहेतुरेव मार्गानुयायि कृत्यं । ततो येन कर्तव्येनाऽसद्ग्रहपरित्यागो न भवति (तन्मार्गानुयायि कृत्यमपि न भवती ) ति तात्पर्यं । अनाऽऽगाढमिथ्यादृशां तु असद्द्महाऽभावेन यत्कृत्यं
४
For Private And Personal Use Only

Page Navigation
1 ... 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122