Book Title: Sutra Vyakhayan Vidhi Shatakam
Author(s): Dharmsagar Gani, Labhsagar
Publisher: Mithabhai Kalyanchand Pedhi

View full book text
Previous | Next

Page 56
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir शतकम्। भवसिद्धमेव । एवं जिनमार्गाश्रितानामन्यतीर्थिकमार्गमाश्रितानामुत्सूत्रभापिमार्गमाश्रितानां चांशतः कथञ्चित् साम्येऽपि महदन्तरमवसातव्यम् । अयं भावः-जैनदर्शनं तावन् मोक्षमार्गत्वेन मार्गः, शेषाणि तु सौगत-कापिलेयादिदर्शनानि जमाल्यादिदर्शनानि च संसारमार्गत्वेनोन्मार्गाः । यदागमः 'कुप्पवयणपासंडी, सब्वे उम्मग्गपट्ठिआ । सम्मग्गं तु जिणक्खायं, एस मग्गो हि उत्तमे ॥१॥ त्ति श्री उत्तरा ० २३ (गा० ६३) तत्र यद्यपि दिग्वैपरीत्येन सर्वासामपि क्रियाणां वैपरीत्यं भवति, अन्यथा विपरीतकार्याऽसम्भवात, तथापि कथञ्चित् परिहारोपादानाभिधानादिना साम्यं सम्भवति । परं तन्मार्गानुयायि कृत्यं न भवत्येव, मुक्तिपथत्वाभावात् । यतः सम्यग्ज्ञानादेर्मुक्तिपथत्वं 'सम्यग्दर्शनज्ञान-चारित्राणि मोक्षमार्ग, (तत्त्वार्थ०) इति वचनात् । अत एवं यावत् राज्यादिपरित्यागोऽपि यथा सम्यगदृशा मुक्तिकारणं न तथा मिथ्यादृशामपि । प्रत्युत महानर्थहेतुरेव । यदुक्तं 'बाह्यग्रन्थ(परि)त्यागा-न्न चारु नन्वत्र तदितरस्यापि । कञ्चकमात्र(परि)त्यागा-न्नहि भुजगो निर्विषो भवति ॥१॥ इति षोडशके। वृत्तिर्यथा-'ननु बाह्यलिङ्गस्य कथमप्राधान्यं भवद्भिरुच्यते १ यतस्तत्परित्यागरूपमित्याशङ्क्याह-बाह्यग्रन्थ व्याख्या-बाह्यग्रन्थत्यागात- धनधान्यस्वजनवस्त्रादित्यागान्न चारु-न शोभनं बाह्यलिङ्गम् । ननु-निश्चितमेतत् अत्र लोके, तद् बाह्यलिङ्ग इतरस्यापि मनुष्यतिर्यग प्रभृतेरपि सम्भवति, एन For Private And Personal Use Only

Loading...

Page Navigation
1 ... 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122