Book Title: Sutra Vyakhayan Vidhi Shatakam
Author(s): Dharmsagar Gani, Labhsagar
Publisher: Mithabhai Kalyanchand Pedhi
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४६
व्याख्यान विधि
सयन्ति कुमार्ग च प्रवेदयन्ति, ब्रुवते च - असौ सर्वज्ञ एव न भवति यः क्रियमाणं कृतमित्यध्यक्षबाधितं प्ररूपयति । तथा च पात्रादिपरिग्रहात् मोक्षमार्गमाविर्भावयतीत्यादि । एवं साम्प्रतीना अपि यश्चतुर्दश्यां पाक्षिकं कृत्यं, स्त्रीजिनपूजां, श्राद्धानां मुखवस्त्रिकादिकं यावत्पृथिव्याद्युपमर्दस्थानं जिनप्रतिमापूजादिकं च प्ररूपयति, स सर्वज्ञ एव न भवतीति ब्रुवाणाः प्रवचनविध्वंसका एव मन्तव्या इति गाथार्थः ॥ ४९ ॥
अथाऽऽगाढमिथ्यादृशां मार्गकृत्यं दूरे, मार्गानुयायि कृत्यमपि ( न ) भवतीति दर्शयतितुल्लाहिं किरियाहिं, ण होइ मग्गाणुसारि किच्चपि । उप्पहपह किरिआणं, तुल्लाणवि अंतरं गुरुअं ॥ ५० ॥
व्याख्या–तुल्याः–सम्यग्दृग् मिथ्यादृग्भ्यां विधीयमानत्वेन समाः क्रियाः- तपः संयमादिलक्षणाः, ताभिः क्रियाभिरागाढमिथ्यादृशां मार्गानुयायि कृत्यमपि न भवति । तत्र दृष्टान्तमाह--' उप्पहेत्यादि । उत्पथं - जिगमिषितनगरं प्रत्युन्मार्गः, पन्था च मार्गः, उत्पथं च पन्था चोत्पथपन्थानौ तयोः क्रियाःसमीहितनगर प्राप्तिनिमित्तगमनादिरूपाः पादादिगमनाऽन्नभोजनपानीयपानस्नान-सुस्थानविश्राम श्रमापनयनादिरूपाः, तासां तुल्यानामपि परस्परमन्तरं गुरुकं - महद् भवति । तच्चैवं याभिः क्रियाभिः प्रेप्सितनगरस्य प्रत्यासन्नतादिभवनानुक्रमेण नगरप्राप्तिर्भवति, ताभिरेव क्रियाभिरुन्मार्गगामिनां प्रेप्सितनगरात् दूरदूरतरभवनादिक्रमेण नगरानवाप्तिरेव स्यात् । एतच्च सर्वानु
I
For Private And Personal Use Only
-

Page Navigation
1 ... 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122