Book Title: Sutra Vyakhayan Vidhi Shatakam
Author(s): Dharmsagar Gani, Labhsagar
Publisher: Mithabhai Kalyanchand Pedhi
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
शतकम्
न्नसंकथमेवाऽभविष्यत्, प्राणातिपाताधकरणनियमस्य वचोमात्रेण प्रायः सर्वसम्मतत्वात् । तस्मात सत्यप्यकरणनियमादौ निजमार्गाऽसद्ग्रहस्य तादवस्थ्यं किं निमित्तकमिति पर्यालोचनायां द्रव्यतोऽपि शुभकर्तव्यस्योभयवादिसम्मतमेव परिशेषात् सिध्यति । अत एव 'देवोऽहन्नेवे त्यादिव्यक्त्या श्रद्धानादौ सत्यपि लोकोत्तरमिथ्यादृप्टेरसद्ग्रहस्याऽपरित्यागः । उत्सूत्रभाषिणां तथाभूतश्रद्धानस्यैवासद्ग्रहत्वेन परिणमनात्। बीजं तावदस्मदीयो मार्गोऽहता भाषित इति श्रद्धानमेवेति तात्पर्यमिति गाथार्थः।५३।
अथाऽऽगाढमिथ्यादृशोर्मध्ये यल्लोकोत्तरमागाढतरमिथ्यात्वं, तदधिकृत्य विशेषमाहतत्थवि जं लोउत्तर-मागाढतरं विराहगस्स तयं । जेणं हविज तेणं, दवेणवि अलियवयणुत्ति ॥ ५४ ॥
व्याख्या-तत्रापि-लौकिकलोकोत्तरयोरागाढ मिथ्यादृशोमध्ये अभिग्रहिकापेक्षया अभिनिवेशी आगाढतरोऽवसातव्यः, अभिनिवेशमिथ्यात्वमागाढतरमित्यर्थः । तत्र हेतुमाह-विराहगस्से'त्यादि । येन कारणेन 'तकं तत् अभिनिवेशमिथ्यात्वं विराधकस्यैव भवति, तेन कारणेन द्रव्येणाऽपि-द्रव्यतोऽप्यलीकवचनः जैनप्रवचनं प्रतीत्येतिशेषः । अनुवादेनाऽपि जिनवचनाsपलापित्वात् । अयं भावः-अभिनिवेशी हि नियमात् उत्सूत्रमार्गस्थितः सन्मार्गनाशक एवं स्यात् । तेन तस्य नियमादनन्तसंसारः । यदागमः
For Private And Personal Use Only

Page Navigation
1 ... 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122