Book Title: Sutra Vyakhayan Vidhi Shatakam
Author(s): Dharmsagar Gani, Labhsagar
Publisher: Mithabhai Kalyanchand Pedhi
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६०
व्याख्यान विधि
तिरिक्तं) जिनवचनं भवति । तच्च वचनं सर्वतः - सर्वप्रकारेण, सत्यं स्यात् । ' एगंतसच्चवयणा सिवगइगमणा जयंतु जिणा' इति वचनात् । तच्चैवं - 'अण्णउत्थिआ णं एवमाइक्खंति भासंति पण्णवेंति परूवेंति' तीत्यादि यावत 'एगे वि अ णं जीवे एगेणं समएणं दो आउआई पडिसंवेदेति, तं० इहभविअं परभविअं च, जं समयं इहभविअं आउअं पडिसंवेदेति तं समयं परभविअं पडिसंवेदेति, जं समयं परभविअं आउयं पडसंवेदेति तं समयं इहभविअं पडिसंवेदेति' तीत्यादिवचनानि परतीर्थिकवचनानि । तानि च तथैव जिनेनोच्यमानानि जिनस्यानुवादरूपाणि भवन्ति । तान्यपि 'जे ते एवमाहंसु मिच्छं ते एवमाहंसु, अहं पुण गोअमा ! एवमाइक्खामीत्यादि यावत् 'एगे वि अ णं जीवे एगेणं समएणं एगं आउअं पडिसंवेदेति' [ भग० श० ५ उ० ३ ] इत्यादिविशिष्टवचनानिअनुवादव्यतिरिक्तवचनानि भवन्ति । यतो वादिनो निराकरणं तदीय- वचनानुवादायत्तमेव भवति । तेन जिनस्यापि तदनुवादो युक्त एव । एवं जैनाऽऽभासास्तीर्थं करवचनानामनुवादका न भवन्ति, जिननाम्नैव प्रवृत्तिमत्त्वेन निजमतोच्छेदस्य बाधकस्य विद्यमानत्वादिति तात्पर्यमिति गाथार्थः ॥ ६१ ॥
अथ दिगम्बरादयः सर्वेऽपि जिनवचनानुवादरहिताः केनोक्ताः १ इति दर्शयति
एवं जिणिदवयणाणुवायरहिया दिगंबरप्पमुहा । णिज्जुत्तिसणिएणं, तित्थेणुग्घोसिआ बाटं ॥ ६२ ॥
For Private And Personal Use Only

Page Navigation
1 ... 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122