Book Title: Sutra Vyakhayan Vidhi Shatakam
Author(s): Dharmsagar Gani, Labhsagar
Publisher: Mithabhai Kalyanchand Pedhi
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
शतकम् ।
Q
तथा अपशकुनोऽयमित्येवं मन्यमानः सन् दृष्टिपथादपसारयन् परुषं वचो ब्रूयात् तद्यथा - ओदनमुण्ड ! निरर्थककायक्लेशपरायण ! दुर्बुद्धे ! अपसराऽग्रतः, तदसौ भ्रुकुटिं विदध्यात् असभ्यं वा ब्रूयादित्यादि यावदिदमुक्तं भवति यो हि क्रूरकर्मकारी साधुनिन्दापरायणः तद्दाननिषेधकः स दक्षिणगामुको भवति - दाक्षिणात्येषु नरकतिर्यग मनुष्यामरेषु उत्पद्यते । ताग्भतश्चायमतो दक्षिणगामुक इत्युक्त' मित्यादि । एवं जिनप्रवचने प्रतीतोऽभिनिवेशिनाम्ना हि लोकोत्तराऽऽगाढ मिथ्यादृष्टिः मन्तव्यः | नवरं - जैनं मार्ग जैनाऽऽभासमार्गत्वेन, जैनाभासमार्ग च जैनमार्गत्वेन ब्रुवाणो जैनमार्गविध्वंसकः सन् साध्वादीनां सर्वेषामपि प्रत्यनीको मन्तव्यः | जैनमार्गविध्वंसकत्वं चोलुत्रभाषकस्यैव स्यात् । यदागमः -
अ अ राओ असमुट्टिएहिं, तहागएहिं पडिलब्भ धम्मं । समाहिमाघातमजोसयंता, सत्थारमेवं फरुसं वयंति | १ | त्ति श्रीसूत्रकृदङ्ग (अ०१३, गा०२) वृत्तिर्यथा - 'अहो अ राओ अ समुट्टिएहि मित्यादि । व्याख्या - अहोरात्रं- अहर्निशं, सन्यगुत्थिताः - सदनुष्ठानवन्तः तेभ्यः श्रुतधरेभ्यः तथागतेभ्यो वा तीर्थभ्यो धर्मं श्रुतचारित्राख्यं प्रतिलभ्य - संसारनिस्तरणोपायं धर्ममवाप्यापि कर्मोदयान्मन्दभाग्यतया जमालिप्रभृतय इवात्मोत्कर्षात् तीर्थकृदाख्यातं समाधिं - सम्यग्दर्शनादिकं मोक्षपद्धतिम जोषयन्तोऽसेवयन्तः - सम्यगकुर्वाणाः निह्नवाः बोटिकाश्च स्वरुचिविरचितव्याख्याप्रकारेण निर्दोषं सर्वज्ञप्रणीतमार्गं विध्वं
For Private And Personal Use Only
४५

Page Navigation
1 ... 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122