SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४६ व्याख्यान विधि सयन्ति कुमार्ग च प्रवेदयन्ति, ब्रुवते च - असौ सर्वज्ञ एव न भवति यः क्रियमाणं कृतमित्यध्यक्षबाधितं प्ररूपयति । तथा च पात्रादिपरिग्रहात् मोक्षमार्गमाविर्भावयतीत्यादि । एवं साम्प्रतीना अपि यश्चतुर्दश्यां पाक्षिकं कृत्यं, स्त्रीजिनपूजां, श्राद्धानां मुखवस्त्रिकादिकं यावत्पृथिव्याद्युपमर्दस्थानं जिनप्रतिमापूजादिकं च प्ररूपयति, स सर्वज्ञ एव न भवतीति ब्रुवाणाः प्रवचनविध्वंसका एव मन्तव्या इति गाथार्थः ॥ ४९ ॥ अथाऽऽगाढमिथ्यादृशां मार्गकृत्यं दूरे, मार्गानुयायि कृत्यमपि ( न ) भवतीति दर्शयतितुल्लाहिं किरियाहिं, ण होइ मग्गाणुसारि किच्चपि । उप्पहपह किरिआणं, तुल्लाणवि अंतरं गुरुअं ॥ ५० ॥ व्याख्या–तुल्याः–सम्यग्दृग् मिथ्यादृग्भ्यां विधीयमानत्वेन समाः क्रियाः- तपः संयमादिलक्षणाः, ताभिः क्रियाभिरागाढमिथ्यादृशां मार्गानुयायि कृत्यमपि न भवति । तत्र दृष्टान्तमाह--' उप्पहेत्यादि । उत्पथं - जिगमिषितनगरं प्रत्युन्मार्गः, पन्था च मार्गः, उत्पथं च पन्था चोत्पथपन्थानौ तयोः क्रियाःसमीहितनगर प्राप्तिनिमित्तगमनादिरूपाः पादादिगमनाऽन्नभोजनपानीयपानस्नान-सुस्थानविश्राम श्रमापनयनादिरूपाः, तासां तुल्यानामपि परस्परमन्तरं गुरुकं - महद् भवति । तच्चैवं याभिः क्रियाभिः प्रेप्सितनगरस्य प्रत्यासन्नतादिभवनानुक्रमेण नगरप्राप्तिर्भवति, ताभिरेव क्रियाभिरुन्मार्गगामिनां प्रेप्सितनगरात् दूरदूरतरभवनादिक्रमेण नगरानवाप्तिरेव स्यात् । एतच्च सर्वानु I For Private And Personal Use Only -
SR No.020783
Book TitleSutra Vyakhayan Vidhi Shatakam
Original Sutra AuthorN/A
AuthorDharmsagar Gani, Labhsagar
PublisherMithabhai Kalyanchand Pedhi
Publication Year1962
Total Pages122
LanguageSanskrit
ClassificationBook_Devnagari, Ritual, & Vidhi
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy