Book Title: Sutra Vyakhayan Vidhi Shatakam
Author(s): Dharmsagar Gani, Labhsagar
Publisher: Mithabhai Kalyanchand Pedhi

View full book text
Previous | Next

Page 29
________________ Shri Mahavir Jain Aradhana Kendra २० www.kobatirth.org व्याख्यान विधि श्रीहरिभद्रसूरिणोक्तमवसातयं । अन्यथा प्रागुक्तप्रकारेण वचनानुपपत्तिः प्रसज्येत । न चैतत्तीर्थस्वरूपं औष्ट्रिकेति प्रसक्तं, तस्यापि श्रीमहानिशीथसूत्रस्याङ्गीकारादिति वाच्यं । मुग्धजनआन्तिजनकस्य तस्य तीर्थसमीपस्थित्यर्थं वचोमात्रेणाङ्गीकारात् । कथमन्यथा अनादिसिद्धं पाक्षिकं पूर्णिमायामेवासीत, चतुर्दशी तु पर्युषणाचतुर्थीवदाचरितेति भणितिः स्यात् । तद्द्व्यञ्जकं तु अष्टमीपाते चतुर्थतपश्चैत्यपरिपाटीप्रमुखमष्टमीकृत्यं सप्तम्यां चतुर्दशीपाते च पाक्षिककृत्यं पूर्णिमायामिति । यत्तु खरतर - भेदविशेषेण विधिप्रपायां चतुर्मासकचतुर्दशीपाते पूर्णिमा युक्तेति भणितं, तदपि तीर्थसम्मत परम्परालेोपेन जमालिवत्तीर्थ बाह्यताभिव्यञ्जकं भवत्येव । यदागमः - Acharya Shri Kailassagarsuri Gyanmandir आयरिअपरं परएणं, आगयं जो उ आणुनुब्बीए । कोइ अवाई, जमालिणासं स णासीहिति ॥ १ ॥ चि सुत्रकृदङ्गनिर्युक्तौ । जमालिवत्तीर्थप्रतिपक्षों हि नियमान्मिथ्यादृष्टिरेव स्यात् । तस्य च जिनप्रवचनमात्रस्याप्यप्रामाण्येनाभ्युपगमे कुतो महानिशीथाभ्युपगमः । तेन लौम्पकस्य ' णमो अरिहंताण' मिति पदस्येव तस्यापि श्रीमहानिशीथस्याङ्गीकारोऽपि वचोमात्रेण, न पुनर्भावत इति नातिप्रसङ्गः । यदि वचोमात्रेणाङ्गीकारोऽपि प्रमाणतयाभ्युपगम्यते तर्हि दिगम्बरादयः सर्वेऽपि सम्यग्दृश एव भवेयुः । देवोऽर्हन्, गुरुः सुसाधुः, धर्मस्तु केवली प्रज्ञप्त एवेतिरूपेण देवादीनां वचोमात्रेणाभ्युपगमात् । तस्मात् For Private And Personal Use Only

Loading...

Page Navigation
1 ... 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122