Book Title: Sutra Vyakhayan Vidhi Shatakam
Author(s): Dharmsagar Gani, Labhsagar
Publisher: Mithabhai Kalyanchand Pedhi

View full book text
Previous | Next

Page 51
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४२ व्याख्यान विधि वर्तित्वेनैव स्यात्, जिनस्यापत्यं जैन इति शब्दव्युत्पत्तेः । तीर्थान्तरवर्तित्वं च जिनसमुदायस्य तीर्थत्वेनैव स्यात् । तच्च निजमार्गप्रतिपक्षभूतस्य तीर्थयातीर्थतया भणनेनैव स्यात्, विरुद्धयो योस्तीर्थयोरसम्भवात् । ननु भो ! जिनस्यापत्यत्वाऽभावेऽपि जिनो देवोऽस्येति जैन इति शब्दव्युत्पत्त्या सम्यग्दृष्टिदेवादीनामिव जैनत्वं भवत्येवेति चेत् । सत्यं, तीर्थप्रतिपक्षभूतमार्गमाश्रितानां तीर्थव्यवस्थापकस्य जिनस्य देवत्वेन श्रद्धानमेव (न) भवति, तीर्थविरोधस्य तीर्थकरविरोधनियतत्वात् । जिनस्य कर्तव्ये वचसि च विश्वासाभावात् जिनस्य मृषाभाषित्वाद्यभ्युपगमे वचोमात्रेण तीर्थकराभ्युपगमः स्वात्मनः तद्वचो श्रोतृणां च महानर्थहेतुरुन्मार्गप्रवृत्तिहेतुत्वात् । किञ्च-वल्लभपुत्रघातकेन सह मैत्री किं केनाऽपि कस्यापि दृष्टा श्रुता वा । न चैवं सम्यगदृष्टिदेवादीनां सम्भवति, तीर्थेन सह विरोधाभावात् । तीर्थविरोधित्वं चाग्रे वक्ष्यते इति गाथार्थः ॥४६॥ अथोक्तप्रकारेण मृषाभाषणं मिथ्यात्वोदयादेव स्यात्, तेन सामान्यतो मिथ्यात्वस्वरूपं किञ्चिदाह मिच्छत्ता विवरीअं, सब्बो लोओ वइज्ज सम्बंपि । जइ कत्थवि सम्मं तं, घुणअक्खरणायओ णेअं ॥४७॥ व्याख्या-मिथ्यात्वात् सर्वो लोको विपरीतं वदेत्-सम्यगवस्तुस्वरूपं न भाषते । तुरध्याहार्यः, स तु कुत्रचित् सम्यग-सत्यं भाषते, तत् घुणाक्षरन्यायतः । यदागमः For Private And Personal Use Only

Loading...

Page Navigation
1 ... 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122