Book Title: Sutra Vyakhayan Vidhi Shatakam
Author(s): Dharmsagar Gani, Labhsagar
Publisher: Mithabhai Kalyanchand Pedhi

View full book text
Previous | Next

Page 50
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir शतकम्। xY एकत्राऽसत्यजं पापं, पापं निःशेषमेकतः । द्वयोस्तुलावधृतयो-राद्यमेवातिरिच्यते ॥१॥ इति योगशास्त्रवृत्तौ। एवं तीर्थमतीर्थमतीर्थं च तीर्थमिति भाषणं सर्वोस्कृष्टमृषाभाषणं तीर्थप्रतिपक्षत्वाभिव्यञ्जकम् । एवं सर्वेऽप्युत्सूत्रभाषिणस्तीर्थप्रतिपक्षा एव इत्यग्रे वक्ष्यते इति गाथार्थः ।।४५।। अथोक्तप्रकारेण मृषाभाषणस्य मूलकारणमाह--- जेणं जिणतणेणं, णिअणामविगप्पिसं सबुद्धीए । तं सच्चंति कयट्ठा, तित्थमतित्थं महामोहा ॥४६॥ व्याख्या--येन कारणेन स्वबुद्धया-वयं जैना इत्येवंरूपेण जैनत्वेन निजनाम कल्पितं तन्नाम सत्यमिति कृत्यर्थं-करणार्थ तीर्थमतीर्थत्वेनातीर्थं च तीर्थत्वेन भाषणं महामोहात्-उत्कृष्टमिथ्यात्वमोहनीयोदयादवसातव्यम् । अयं भावः-जैनानां मते उत्सूत्रभाषिणो मिथ्यादृष्टित्वेन प्रवचनबाह्याः। तेन-ते न जैनाः, नान्यतीथिका वा, हरिहरादीनां देवत्वेनाऽनभ्युपगमात् । नापि गृहस्थाः, यतिलिङ्गधारित्वात् । अपि तु व्यक्तनाम्ना वक्तुमशक्यत्वात् अव्यक्ताः। यदि च मिथ्यादृष्टित्वेऽपि जैना भवन्ति, तहि जैनाः सम्यग्दृशो मिथ्यादृशश्चेति द्वविध्येन वक्तव्याः स्युः। तच्चाद्य यावत्केनापि नोक्तं, न वा श्रुतं, उत्सूत्रभाषिणो मिथ्याप्टित्वं च वचोमात्रेण सर्वसम्मतम् । तेन यदि आत्मानं जैनत्वेन नाऽमणिष्यत् , तर्हि ते जैनमजैनत्वेनाजैनं च जैन वेन नाऽमणिष्यत् , प्रयोजनाभावात् , यथा सौगतादयः । प्रयोजनं चात्मनो जैनत्वेन सिद्धिरेव । जैनत्वं च तीर्थान्तर For Private And Personal Use Only

Loading...

Page Navigation
1 ... 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122