Book Title: Sutra Vyakhayan Vidhi Shatakam
Author(s): Dharmsagar Gani, Labhsagar
Publisher: Mithabhai Kalyanchand Pedhi

View full book text
Previous | Next

Page 47
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्याख्यान विधि त्ववश्यं वक्तव्यमेव । अन्यथा 'णमो अरिहंताण' मिति पदस्य व्याख्यानासम्भवात् । अव्याख्यातं च सूत्रं सुप्तकल्पमेव भवति । यदागमः-'सुअधम्मे तिविहे पं० तं०-सुत्तसुअधम्मे १ अत्थसुअधम्मे २ तदुभयसुअधम्मे ३' त्ति श्री स्थानांगे । वृत्तियथा'सूयते-सूच्यते वाऽर्थोऽनेनेति सूत्रं, सुस्थितत्वेन व्यापित्वेन च सुष्ठक्तत्वात्सूक्तं, अव्याख्यानेन अप्रतिबुद्धावस्थत्वात्सुप्तं इव सुप्तम् । न चैवं 'सुत्तं' ति पदस्य त्रिधा निरुक्तिकल्पनमनुचितमिति वाच्यं । एकस्यापि पदस्य प्रवचनाऽनाबाधयाऽनेकार्थाभिधायकत्वात् । अत्र वृद्धसंबादेन दृष्टान्तोऽपि-- 'भिल्लम्स तिन्नि भज्जा, एगा मग्गेइ पाणिभं देहि । बीआ मग्गइ हरिणं, तइआ गवरावए गीअं ॥१॥ ति । तिसृभिर्भार्या भिर्याचितो भिल्लः 'सरो णन्थिति एकेनैव वाक्येन सर्वासामपि निर्वचनं कृतवान् । अत्र प्राकृतनिप्पत्त्या एकत्वेऽपि शरो नास्ति? सरो नास्ति२ स्वरो नास्तीति निरुक्तिभेदेन नानार्थत्वात् । एवमेकमेव सुत्तंति पदं वृत्तिकारणागमानाबाधया विधापि व्याख्यातं । त्रयाणामप्यर्थानां प्रवचनाऽनाबाधकत्वात् । अन्यथा महार्थता-सर्वतोमुखत्वाद्यभावेन सूत्रमेव न स्यात्। अत एव एकमेव सूत्रं द्रव्यानुयोगादिभिश्चतुभिरनुयोगैाख्यायमानमासीत् । तस्मान्णमो अरिहंताणमिति पदस्य नियुक्तिभणितेषु अष्टसु भङ्गषु श्रद्धानं ज्ञानावरणीय-दर्शनमोहनीयक्षयोपशमे सत्येव, नान्यथेति तात्पर्यमिति गाथार्थः ॥४३॥ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122