Book Title: Sutra Vyakhayan Vidhi Shatakam
Author(s): Dharmsagar Gani, Labhsagar
Publisher: Mithabhai Kalyanchand Pedhi

View full book text
Previous | Next

Page 46
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir शतकम्। 'अट्टविहंपि अ कम्मं, अरिभूअं होइ सव्वजीवाणं । तं कम्ममरिहंता, अरिहंता तेण वुच्चंति' । १ ।। तत्राष्टविधान्यपि कर्माणि जीवेन निबद्धान्येव भवन्ति । निबन्धस्तु कार्यत्वेन कारणायत्त इति प्रसंगागतानि कर्मबन्धकारणान्यपि वक्तव्यानि । तत्र ज्ञानावरणीयदर्शनावरणीयकर्मबन्धकारणानि यथा-- 'पडिणोज अंतराओ-बघायए तप्पओसणिण्हवणे । आवरणदुगं भूओ, बंधइ अच्चासणाए अ' ॥ १॥ त्ति । तथा दर्शनमोहनीयकर्मबन्धकारणानि यथाअरिहंतसिद्धचेइअ-तवसुअगुरुसंघसाहुपडिणीओ । बंधइ दंसणमोहं, अणंतसंसारिओ जेण ॥ १॥ त्ति श्रीआचारांगवृत्तौ सम्मतितया भाष्यकारवचनं । तथा उपोद्घातनियुक्तिव्याख्यानभूतायां 'थभसय भाउआणं' इत्यादिभाष्यगाथायां जिनप्रतिमा भणिताः । ताश्च प्रतिष्ठिता एव पूज्या भवन्तीति प्रसंगागतं प्रतिष्ठाकारकश्रीनाभसूरिव्यतिकरनिबद्धंश्रीशत्रुञ्जयमाहात्म्यं वक्तव्यं । तच्च श्रीपुण्डरीकगणधरकृतं सपादलक्षप्रमाणमासीत् । साम्प्रतं च क्रमेण तदुद्धाररूपमवसातव्यम् । जिनप्रतिमाप्रतिष्ठा च केन विधिना भवतीत्यनुप्रसङ्गागतं श्री हरिभद्रसूरि - पादलिप्ताऽऽचार्योमास्वातिवाचकप्रभृतिविरचिताः प्रतिष्ठाकल्पा अपि वक्तव्याः । एवं च सति णमो अरिहंताण' मिति पदमात्रय ‘सुत्तत्थो खलु पढमो' इत्यादिगाथोक्तैस्त्रिभिः प्रकारैर्व्याख्यानकरणे नियुक्ति-भाष्य-चूर्णि-चरित्रादिकं For Private And Personal Use Only

Loading...

Page Navigation
1 ... 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122