Book Title: Sutra Vyakhayan Vidhi Shatakam
Author(s): Dharmsagar Gani, Labhsagar
Publisher: Mithabhai Kalyanchand Pedhi

View full book text
Previous | Next

Page 39
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ३० व्याख्यान विधि 7 व्याख्या - एतद् गाथाद्विकमप्रमाणं अस्माकं प्रमाणं न भवतीति भाषमाणे लुम्पके इष्टफलसिद्धिरर्थादस्माकं वांछित - फलसिद्धिः । कारणमाह - ' अरिहंताणं पि' ति णमो अरिहंताणमित्यपि पदमप्रमाणं भवेत् किं शेषं अनुयोगद्वारादि सर्वमपि श्रुतं तस्य लौम्पकस्य । यस्य तु सर्व श्रुतमप्रमाणं तेन सह । श्रुतप्रमाणवादिनां विवादोऽकिञ्चित्कर एव, ग्रन्थसम्मत्यादिकं दर्शयितुमशक्यत्वात् । अयं भावः - यदि लौम्पको भणति -निर्युक्तिभाष्यादिकमस्माकमप्रमाणं, तर्हि श्रुतमात्रस्याप्रामाण्ये सिद्धे श्रुतप्रमाणवादिनां उक्तगाथाद्विकेनापि जिनप्रतिमाराधनसिद्धिः अन्यथा तस्याप्रामाण्यासम्भवात् । यदि च भणति प्रमाणं तर्हि तेनैव प्रतिमाराधन सिद्धिरित्युभयथापीष्टफलसिद्धिरिति गाथार्थः ॥ अथोक्तगाथाद्विकस्याप्रामाण्ये सिद्धे सर्वं श्रुतमप्रमाणं कथं भवति १ इत्याह-गाहादुगपरिहारे, परिहारो होड़ सुत्तमित्तस्स | जं णिज्जुत्तिजुत्तो, अणुओगो सुतमित्तस्स ||३८|| व्याख्या-गाथाद्विकपरिहारे - अनन्तरोक्त नियुक्ति - भाष्यगाथयोः परिहारे सूत्रमात्रस्य परिहारो भवेत् । तत्र हेतुमाह - 'जं णिज्जुतीत्यादि । यस्मात् कारणात् सूत्रमात्रस्यानुयोगो व्याख्यानं निर्युक्तियुक्तो भणितः 'बीओ णिज्जुत्तिमीसओ भणिओ' ति वचनात् । नियुक्तियुक्तयाख्यान परिहारे च व्याख्येयं सूत्रं सर्वमपि परिहृतं भवेत् । व्याख्येयव्याख्यानयोरन्योन्यानुविद्धत्वादिति गाथार्थः ||३८|| Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only

Loading...

Page Navigation
1 ... 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122