________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
३०
व्याख्यान विधि
7
व्याख्या - एतद् गाथाद्विकमप्रमाणं अस्माकं प्रमाणं न भवतीति भाषमाणे लुम्पके इष्टफलसिद्धिरर्थादस्माकं वांछित - फलसिद्धिः । कारणमाह - ' अरिहंताणं पि' ति णमो अरिहंताणमित्यपि पदमप्रमाणं भवेत् किं शेषं अनुयोगद्वारादि सर्वमपि श्रुतं तस्य लौम्पकस्य । यस्य तु सर्व श्रुतमप्रमाणं तेन सह । श्रुतप्रमाणवादिनां विवादोऽकिञ्चित्कर एव, ग्रन्थसम्मत्यादिकं दर्शयितुमशक्यत्वात् । अयं भावः - यदि लौम्पको भणति -निर्युक्तिभाष्यादिकमस्माकमप्रमाणं, तर्हि श्रुतमात्रस्याप्रामाण्ये सिद्धे श्रुतप्रमाणवादिनां उक्तगाथाद्विकेनापि जिनप्रतिमाराधनसिद्धिः अन्यथा तस्याप्रामाण्यासम्भवात् । यदि च भणति प्रमाणं तर्हि तेनैव प्रतिमाराधन सिद्धिरित्युभयथापीष्टफलसिद्धिरिति गाथार्थः ॥ अथोक्तगाथाद्विकस्याप्रामाण्ये सिद्धे सर्वं श्रुतमप्रमाणं कथं भवति १ इत्याह-गाहादुगपरिहारे, परिहारो होड़ सुत्तमित्तस्स | जं णिज्जुत्तिजुत्तो, अणुओगो सुतमित्तस्स ||३८|| व्याख्या-गाथाद्विकपरिहारे - अनन्तरोक्त नियुक्ति - भाष्यगाथयोः परिहारे सूत्रमात्रस्य परिहारो भवेत् । तत्र हेतुमाह - 'जं णिज्जुतीत्यादि । यस्मात् कारणात् सूत्रमात्रस्यानुयोगो व्याख्यानं निर्युक्तियुक्तो भणितः 'बीओ णिज्जुत्तिमीसओ भणिओ' ति वचनात् । नियुक्तियुक्तयाख्यान परिहारे च व्याख्येयं सूत्रं सर्वमपि परिहृतं भवेत् । व्याख्येयव्याख्यानयोरन्योन्यानुविद्धत्वादिति गाथार्थः ||३८||
Acharya Shri Kailassagarsuri Gyanmandir
For Private And Personal Use Only