________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
शतकम्
अथ नियुक्तिरपि कीदृशी सूत्रानुयोगो भवेद् ? इत्याहअणुओगे साणुगमा, णिज्जुत्ति सेव सुत्तअणुओगे। अण्णहणुओगदारं, अपमाणं होइ वत्तन्वं ॥३६॥
व्याख्या-अनुयोगे-पदैकदेशे पदसमुदायोपचारात् अनुयोगद्वारे सानुगमा-सानुयोगा नियंक्तिर्मणिता ; सैव-तथाभूतैवसव्याख्यानैव सूत्रव्याख्यानं भवति, अन्यथा यदि सव्याख्याना सूत्रव्याख्यानं नोच्यते, तर्हि अनुयोगद्वारं-अनुयोगद्वारसूत्रमप्रमाणं वक्तव्यं भवेत् । तत्र सूत्रनियुक्त्योरविशेषेण व्याख्यानयोभणितत्वात् ।
'से किं तं अणगमे २ दुविहे पं०२० सुत्ताणुगमे णिज्जुत्तिअणुगमे त्ति वचनादिति गाथार्थः ॥३६॥
अथातिदेशेन पराभिप्रायं दूषयन्नाहएएणं णिज्जुत्ती, अपमाणं भासमाइपक्खेवा । इअ वयणं पक्खित्तं, भासाईणं पमाणत्ता ॥४०॥
व्याख्या--एतेनान्तरोक्तयुक्तिप्रकारेण नियुक्तिरस्माकं प्रमाणमेव, परं भाप्यादिप्रक्षेपादप्रमाणं गडुलितत्वादिति वचनं प्रक्षिप्तं-निरस्तं, कुतो ? भाष्यादीनामपि प्रमाणत्वात्-प्रमाणभूतभाष्यादिप्रक्षेपैनियुक्तिरप्रमाणं न भवेदित्यर्थः ॥४०॥
अथ प्रमाणभूतेन सूत्रवाक्यादिना युक्तं प्रमाणमपि यद्यप्रमाणं भवेत्, तर्हि अतिप्रसंगेनेष्टापत्तिमाह
अण्णह णंदिप्रमुहातिदेसवयणेहिं भगवई जुत्ता । अपमाणं वत्तबा, एवंपि समीहिअं अम्हं ॥४१॥
For Private And Personal Use Only