________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
३२
व्याख्यान विधि
व्याख्या -- अन्यथा प्रमाणभूतेन वाक्यादिना संयुक्ता निर्युक्तिर्यद्यप्रमाणं भवेत्तर्हि भगवती अपिर्गम्यः, भगवत्यप्यप्रमाणा वक्तव्या स्यात्, तस्या अपि नन्दी - जीवाभिगम-प्रज्ञापनासिद्धगण्डिकानामतिदेशवाक्यैर्युक्तत्वात् । तथाहि - 'से किं तं आयारो ? आयारेणं समणाणं निग्गंथाणं आयारगोअरो, एवं अंगा भाणियव्वा, जहा गंदीए जाव
सुत्तत्थो खलु पढमो, बीओ णिज्जुत्तिमीसओ भणिओ । तइओ अ णिरवसेसो, एस विही होइ अणुओगे || १॥ त्ति । भग० श० २५, उ० ३ । तथा एवं 'जहा जीवाभिगमे पढमो र अउसो णिरवसेसो भाणियव्वो' त्ति, भगवती सूत्र - शतक ० ११, उ० ३ । तथा 'णेरइआ भंते! केवइअं कालं ठिई पण्णत्ता, एवं बीअठिइपदं णिरवसेसं भाणियव्वं जाव अजहणेत्यादि भ० श० ११, उ० ११ । तथा उज्जुमईणं भंते! अपए सिए जहा नंदीए जाव भावओ इत्यादि । भग० श० ७, (८) उ० २ तथा प्रकरणस्याप्यतिदेशो, यथा- 'जाव सिद्धगंडिआ सम्मत्ता, कप्पाण पट्टा बाहुल्लुच्चत्तमेव संठाणमित्यादि । भग० श० ९, (२) उ०७ । एतद्वृत्तौ च सिद्धगण्डिकासिद्धस्थानप्रतिपादनप्रकरणमित्यादि । एतेनाऽस्माकं प्रकरणमप्रमाणमिति व बाणो लौम्पको निरस्तो बोध्यः । भगवत्यामप्यतिदेशरूपेण प्रकरणसम्मतेर्दर्शितत्वात् प्रकरणाप्रमाणवादिनो लौम्पकस्य भगवत्याः सुतरामेव परिहारार्हत्वात् । ननु भो ! भगवत्यां यदतिदेशरूपेण नन्दीप्रभृतिकं भणितं, तत्
Acharya Shri Kailassagarsuri Gyanmandir
For Private And Personal Use Only