________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
शतकम्।
गणधरकृतं साम्प्रतं व्युच्छिन्नं, यच्च विद्यमानं तत्ततोऽन्यदेवेति चेत् । सत्यं, तर्हि निर्युक्तावपि भाष्यादिकं तथैवाभ्युपगन्तव्यं, उभयत्रापि युक्तेस्तौल्यात् । अत एव नियुक्तौ मूलभाष्यगाथा इत्यादि भणितमपि। तथा 'सत्त पवयणणिण्हगा पं०२०-बहुरया १ जीवपएसिआ २ अन्वत्तिआ ३ सामुच्छेइया ४ दोकिरिया ५ तेरासिया ६ अबद्धिआ ७ इत्याद्यधिकारो गोष्ठामाहिलोत्पत्तेः पश्चादेव प्रक्षितः । यदि च श्रीसुधर्मस्वामिना गोष्ठामाहिलो निह्नवत्वेन श्रीस्थानाङ्ग भणितोऽभविष्यत्, तर्हि गोष्ठामाहिलो भणति तत् सत्यं, उत दुर्बलिकापुष्पप्रमुखः श्रीसंघो भणतितत् सत्यमिति निर्णयार्थ तीर्थङ्करसमीपे शासनदेवतायाः प्रेषणं नाऽभविप्यत् । निह्नवत्वेन श्रीमहावीरोक्तो गोष्ठामाहिलोऽसत्यवादीति निश्चयात् । किञ्चास्तामन्यत , गोष्ठामाहिलस्य दीक्षादिकमपि नाऽभविष्यत् । एवं जमालिप्रभृतयः शेषनिह्नवा अपि नामप्राहेण प्ररूपणया वा सूत्रेऽनुक्ता एवावसातव्याः । एवं प्ररूपणाकारी अमुकनामा साधुनिह्नवो भविष्यतीति । सूत्रोक्ताकल्प्यवस्तुविषयप्रभृतिरागमव्यवहारिणोऽपि न भवति ‘णो इमं सावज्जति पण्णवेत्ता पडिसेवित्ता (ण) भवतीति वचनात् । नहि श्रुतव्यवहारि निन्द्य कृत्यं केवल्यपि करोति, श्रुतव्यवहारस्य केवलिनोप्यभिमतत्वात् । यच्च श्रुते आगमव्यवहारिणो बलवत्त्वं, तत्सामान्योक्तविध्युल्लङ्घनेन विशिष्टाचारस्य निश्चयादवसातव्यम् । तच्च श्रुतव्यवहारनिन्द्य न भवति, फ(ब)लवत्तया निन्द्यकर्तव्यस्य तत्रासम्भवात् । यथा श्रीस्थलभद्रस्य कोशागृहे
For Private And Personal Use Only