Book Title: Sutra Vyakhayan Vidhi Shatakam
Author(s): Dharmsagar Gani, Labhsagar
Publisher: Mithabhai Kalyanchand Pedhi

View full book text
Previous | Next

Page 42
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir शतकम्। गणधरकृतं साम्प्रतं व्युच्छिन्नं, यच्च विद्यमानं तत्ततोऽन्यदेवेति चेत् । सत्यं, तर्हि निर्युक्तावपि भाष्यादिकं तथैवाभ्युपगन्तव्यं, उभयत्रापि युक्तेस्तौल्यात् । अत एव नियुक्तौ मूलभाष्यगाथा इत्यादि भणितमपि। तथा 'सत्त पवयणणिण्हगा पं०२०-बहुरया १ जीवपएसिआ २ अन्वत्तिआ ३ सामुच्छेइया ४ दोकिरिया ५ तेरासिया ६ अबद्धिआ ७ इत्याद्यधिकारो गोष्ठामाहिलोत्पत्तेः पश्चादेव प्रक्षितः । यदि च श्रीसुधर्मस्वामिना गोष्ठामाहिलो निह्नवत्वेन श्रीस्थानाङ्ग भणितोऽभविष्यत्, तर्हि गोष्ठामाहिलो भणति तत् सत्यं, उत दुर्बलिकापुष्पप्रमुखः श्रीसंघो भणतितत् सत्यमिति निर्णयार्थ तीर्थङ्करसमीपे शासनदेवतायाः प्रेषणं नाऽभविप्यत् । निह्नवत्वेन श्रीमहावीरोक्तो गोष्ठामाहिलोऽसत्यवादीति निश्चयात् । किञ्चास्तामन्यत , गोष्ठामाहिलस्य दीक्षादिकमपि नाऽभविष्यत् । एवं जमालिप्रभृतयः शेषनिह्नवा अपि नामप्राहेण प्ररूपणया वा सूत्रेऽनुक्ता एवावसातव्याः । एवं प्ररूपणाकारी अमुकनामा साधुनिह्नवो भविष्यतीति । सूत्रोक्ताकल्प्यवस्तुविषयप्रभृतिरागमव्यवहारिणोऽपि न भवति ‘णो इमं सावज्जति पण्णवेत्ता पडिसेवित्ता (ण) भवतीति वचनात् । नहि श्रुतव्यवहारि निन्द्य कृत्यं केवल्यपि करोति, श्रुतव्यवहारस्य केवलिनोप्यभिमतत्वात् । यच्च श्रुते आगमव्यवहारिणो बलवत्त्वं, तत्सामान्योक्तविध्युल्लङ्घनेन विशिष्टाचारस्य निश्चयादवसातव्यम् । तच्च श्रुतव्यवहारनिन्द्य न भवति, फ(ब)लवत्तया निन्द्यकर्तव्यस्य तत्रासम्भवात् । यथा श्रीस्थलभद्रस्य कोशागृहे For Private And Personal Use Only

Loading...

Page Navigation
1 ... 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122