Book Title: Sutra Vyakhayan Vidhi Shatakam
Author(s): Dharmsagar Gani, Labhsagar
Publisher: Mithabhai Kalyanchand Pedhi

View full book text
Previous | Next

Page 24
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir शतकम्। एवार्थे, द्वितीयव्याख्यानानुसारेणैव यस्य ‘णमो अरिहंताण' मिति सानुयोगपदं-सानुयोगनिर्यक्तिलक्षणव्याख्यानसंयुक्तं पदं सामायिकाध्ययनस्य प्रथमपदं सम्मति' सम्यग् प्रमाणं भवति, तत् खलुरवधारणे, तदेव तीर्थ-साधुसाध्वीश्रावकश्राविकासमुदायात्मकं, मार्गो-मोक्षमार्गो भवति । शेषं-यस्योक्तप्रकारेण 'णमो अरिहंताण' मिति पदं प्रमाणं न भवेत्, तदतीर्थ-तीर्थ न भवेत् । अतीर्थ च जिनाज्ञाबाह्यमत एव उन्मार्ग एवेत्यर्थाद् बोध्यमिति गाथार्थः ॥१६॥ अथ प्रसंगतः प्रकारान्तरेणापि तीर्थस्वरूपमाह-- तं वा तित्थं जं चिअ, णिज्जुत्तिपमुहसबसुअठाणं । संपइ वीरजिणाओ, उप्पणं जाव दुप्पसहो ॥१६॥ व्याख्या--वा-अथवा, तत्तीर्थ', चिअ एवार्थे, व्यवहितः सम्बध्यते, तदेव तीर्थ यत् नियुक्तिप्रमुखं सर्वश्रुतं-नियुक्तिभाष्यादिकं सकलश्रुतं, तस्य स्थानं-आश्रयः, यन्नियुक्त्यादिसर्वश्रुत स्थानं भवति, तदेव तीर्थमित्यर्थः । तच्च तीर्थ साम्प्रतं कुत उत्पन्न कियत्कालं स्थायि ? इत्याह-'संपईत्यादि । सम्प्रतिवर्तमानं तीर्थं वीरजिनात्-श्रीमहावीरादुत्पन्न-वर्तमानं तीर्थ श्रीमहावीरव्यवस्थापितमित्यर्थः । एतेन शिवभूत्यादिव्यवस्थापिताः समुदायास्तीर्थानि न भवन्तीति दर्शितं । तेषां श्रीमहावीरव्यवस्थापितत्वाभावादित्यग्रे वक्ष्यते । तच्च यावदुःप्रसभंदुःप्रसभनामाचार्यः तावदच्छिन्नं भवतीत्यर्थः । यदागमः-- 'जंबूद्दीवे २ भारहे वासे इमीसे ओसप्पिणीए देवाण प्पि For Private And Personal Use Only

Loading...

Page Navigation
1 ... 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122