________________
Shri Mahavir Jain Aradhana Kendra
शतकम् 1
www.kobatirth.org
-
Acharya Shri Kailassagarsuri Gyanmandir
किं १३ कहहिं १४ कस्स १५ कहिं १६, केसु १७ कहं १८ किच्चिरं हवइ कालं २६ ।
क २० संतर २१ मविरहिअं २२,
भवा २३ गरिस २४ फासण २५ णिरुत्ती २६ ॥ १३ ॥ ( युग्मम् ) व्याख्या - चानयोः संक्षेपतोऽनुयोगद्वारवृत्तितः विस्तरतस्तु आवश्यक नियुक्ति तद्वृत्तिभ्यामेवेत्यनुयोगद्वारवृत्तावपीत्थमेव भणितं । तत्रोपोद्घातनिर्युक्तिरावश्यक नियुक्त्यन्तर्गता सर्वत्राप्यतिदेशेन वक्तव्या । परमिह सर्वसूत्रसाधारणत्वपरिज्ञानाय द्वार - विवेकपरिज्ञानमात्रहेतुः किंचिद् व्याख्यानं यथा उद्देशन मुद्देशः-सामान्याभिधानरूपो यथाध्ययनमित्यादिरूपेण वक्तव्य इति क्रिया सर्वत्रापि मन्तव्या १ । तथा निर्देशनं निर्देशः - विशेषाभिधानं, यथा सामायिकमित्यादि । तथा निर्गमनं निर्गमः कुतः सामायिकं निर्गतमिति । तथा तौ क्षेत्रकालौ च ययोः सामाकिमुत्पन्नं, तौ च वक्तव्यौ ४ - ५ । कुतः पुरुषान्निर्गतमिति ६ । तथा केन कारणेन गौतमादयो भगवत्समीपे श्रृण्वन्तीति ७ । तथा प्रत्ययः केन प्रत्ययेन भगवतेदमुपदिष्टं ८ । तथा लक्षणंसम्यक्त्व सामायिकादीनां स्वरूपभणनं । तथा नया नैगमादय: १० । तथा समवतारः - यो नयो यत्र समवतरति ११ । तथानुमतं - कस्य व्यवहारादेः किं सामायिकमनुमतं १ १२, । किं सामायिकं कस्मिन् प्रत्यवतर्ति ? १३ । कतिविधमिति १४ । कस्य सामायिक १५ । क्व सामायिकं १६ । तथा केषु
For Private And Personal Use Only
१३