________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
शतकम्
एतच्च समनुज्ञासूत्रस्य व्याख्यायां भाष्यकारवचनं । एवं सुशिष्यस्यापि कोलतस्त्रिवर्षादिपर्यायप्राप्तस्याचारांगादेर्वाचना दातव्या । यदागमः --
तिवरिसपरिआगस्स उ, आयारपकप्प णामज्झयणं । चउवरिसपरिआगस्स उ सूअगडं णाम अंगंति ॥१॥
इत्यादि व्यवहारसूत्रे । एवं चानुज्ञातसूत्रार्थस्य साधोधर्मकथायामप्यधिकारो, न पुनर्गृहस्थादेः । यदागमः --
'चत्तारि पुरिसजाया पं० तं०-आघवतित्ता णाममेगे जो उछजीविसंपन्ने' इत्यादिचतुर्भङ्गीवृत्तौ-'आख्यायकः सूत्रस्य, न चोञ्छजीविकासम्पन्न:-अनेषणानिरत इत्यर्थः, स चापद्गतः संविग्नः संविज्ञपाक्षिको वेत्यादि यावत् द्वितीयभंगे यथाच्छन्दः, तृतीये साधुः, चतुर्थे गृहस्थादिः इति । एवं च संविज्ञपाक्षिकसाधुव्यतिरिक्तानां धर्मकथायामनधिकार एव भणितः । तेन तेषां समीपे धर्मकथाश्रवणं महापापमेव । अत एव गोष्ठामाहिलसमीपे धर्मकथाश्रवणं श्रीसंघेन प्रतिषिद्धं । एतेन एतेऽपि धर्म मेवोपदिशन्ति, तत्श्रवणे को दोष ? इति भ्रान्तिरपि निरस्ता, जिनाज्ञामुल्लङध प्रवृत्तेमहापापरूपत्वात् । किञ्च-सर्वेषामपि वादिनामुपदेशो निजनिजमार्गप्रवृत्तिहेतुरेव भवति, तन्मार्गप्रवर्तनं चोन्मार्गप्रवृत्तिरूपत्वेन महानर्थरूपमेवेति पर्यालोच्यं । यदि च परं कदाचित् श्रावकोऽपि निजकुटुम्बस्य पुरस्ताद्धम कथयति, तदा गुरव इत्थमादिशन्तीति गुरूपदेश'पारतनयेणैव जिनाज्ञा, न पुनः साधुवत्सभाप्रबन्धेनेति श्रावक
For Private And Personal Use Only