________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्याख्यान विधि
तावत्, अर्थतस्तीर्थकरात् सूत्रतश्च गणधरात् अच्छिन्नपरम्परागतेन उद्देशसमुद्देशादिविधिना 'सुअणाणस्स उद्देसो समुद्दे सो अणुण्णा अणुओगो पवत्तइ' त्ति वचनात् , उपात्तसूत्रार्थधारित्वेनैव । गुरुत्वं च संयतत्वेनैवावसातव्यं, संयतानामेव सूत्रार्थयोरनुज्ञादानेऽधिकारात् ।
यदागमः-'तिविहा समणण्णा पं० सं०-आयरियत्ताए १, उवज्झायत्ताए २, गणित्ताए ३', त्ति श्री स्थानांगे [ सू० १७४] । अत्र प्रथमभङ्ग अनुयोगाचार्य एवापसातव्यः । एवं विधेन गुरुणा क्रियमाणोऽनुयोगो निपुणशिष्यैश्च श्रोतव्यः इति । अत्र शिष्यस्य नैपुण्यं तावत् , सुगुरूक्तविधिना गृहीतं सार्थ सूत्रं शुभफलवद् भवति, न पुनरितरथापीति सम्यगपरिज्ञानेनावसातव्यं । अत एव सुगुरुभिरपि वाचनायोग्यत्वेन परीक्षाप्राप्तस्यैव विनेयस्य वाचना दातव्या, न पुनरितरस्यापि । यदागमः-'तओ अवायणिज्जा पं० तं० अविणीए १, विगइपडिबध्धे २, अविओसिपाहुडे ३', त्ति, श्रीस्थानांगे [ सू० २०३ ] । एतद्वृत्तौ च-'संवासिता अपि वाचनाया अयोग्याः, न वाचनीयाः-न सूत्रं पाठनीयाः, अर्थमप्यश्रावणीयाः। सूत्रापेक्षयार्थस्य गुरुत्वात् । तथा अव्यवसितप्राभृतकोऽनुपशान्तक्रोधो मन्तव्यः'। तथा अयोग्यस्य शिष्यस्य वाचनादातुर्भावतस्तीर्थोच्छेदपातकं स्यात् । यदागमः-- 'इहराउ मुसावाओ, पवयणखिसाय होइ लोगंमि । सेसाणवि गुणहाणी, तित्थुच्छेओ अ भावेणं ॥१॥'ति ।
For Private And Personal Use Only