________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
शतकम् ।
मित्यादिभणनं । २५ । अर्थापत्तिदोषः - यत्रार्थादनिष्टापत्तिः,
इत्यर्थादब्राह्मणघातापत्तिः । २६ ।
1
यथा ब्राह्मणो न हन्तव्य असमासदोषः समासविधौ सत्यसमासकरणं, यथा- राजपुरुष इत्यत्र तत्पुरुषसमासे कर्तव्ये विशेषणसमासकरणं बहुव्रीहिसमासकरणं वेत्यादि । २७ । उपमादोषो यत्र हीनाधिका उपमा क्रियते, यथा-मेरुः सर्वपोपमः सर्षपो मेरुसन्निभ इत्यादि |२८| रूपकदोषः यथा पर्वते निरूपयितव्ये शिखरनिरूपणं । २९ । निर्देशदोषो - वाक्यासमाप्तिदोषः, यथा - देवदत्तः स्थाल्यामोदनमित्येव वक्ति, न पुनः पचतीत्यादि ३० । पदार्थदोषः - यत्र वस्तुनः पर्यायस्य पदार्थान्तरत्वेन कल्पना, यथा-द्रव्यपर्यायाणां सत्तादीनां पदार्थान्तरत्वेन कल्पनं वैशेषिकस्य ३१ । असन्धिदोषः सन्धिप्राप्तौ तदकरणं दुष्टसन्धिकरणं वेत्यादि ३२ । इत्येवं सूत्रस्य द्वात्रिंशद्दोषा हारिभद्य सविस्तरं भणिताः, अनुयोगद्वारे च 'अप्परगंथ महत्थं बत्तीसादोसविरहिअं जं चेत्यादिना सूचिता अपि तद्वृत्तावतिदिष्टा इतिगाथाथः || ६ ||
「
अथोक्तलक्षणस्य सूत्रस्यानुयोगः कथं केन कर्तव्यः केन च श्रोतव्यः १ इत्याह-
एवंविह सुत्तस्स उ, तिहिं पयारेहिं होइ अणुओगो | कायो सुगुरूहिं, सोअच्वो णिउणसीसेहिं ||७||
व्याख्या -- एवंविधस्य सूत्रस्यानुयोगो व्याख्यानं, त्रिभिः प्रकारैरनन्तरवक्ष्यमाणगाथोक्तप्रकारैः सुगुरुभिः कर्तव्यः, श्रोतव्यः श्रोतव्यश्च निपुण शिष्यैः । तत्र गुरोः शोभनत्वं
चकारो गम्यः,
For Private And Personal Use Only
७