________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ब्याख्यान विधि
Runni.antar
इन्द्रः शक्र इत्यादि । अथवा अर्थादापन्नस्यार्थस्य स्वशब्देन पुनरुक्तता, यथा-देवदत्तो दिवा न भुङ्कते इत्युक्ते अर्थादात्री भुकते इति, तस्य च साक्षाच्छब्देन भणनं पुनरुक्तता । १० । व्याहतं-पूर्वापरल्याहतिः, यथा-कर्म चास्ति फलं चास्ति कर्ता च नास्तीत्यादि । ११ । अयुक्तं-अनुपपत्तिक्षम, यथा-तेषां गजतटभ्रष्टै-गजानां मदबिन्दुभिः । प्रावर्तत नदी घोरा, हस्त्यश्वरथवाहिनी ॥१॥ त्यादि । १२ । क्रमभिन्नं यथा-शब्दरूपादयः श्रोत्रचक्षुरादीनां विषयः, तत्र रूपशब्दादय इति भणनं । १३ । वचनभिन्न-यथा-वृक्षावेतौ पुष्पिता इत्यादि । १४ । विभक्तिभिन्न-विभक्तिव्यत्ययः, एष वृक्ष इति वक्तव्ये एष वृक्षमिति भणनं । १५ । लिङ्गभिन्न-लिङ्गव्यत्ययः, यथाअयं स्त्रीरित्यादि । १६ । अनभिहितं-स्वसिद्धान्तेऽनुपदिष्टं, यथा-वैशेषिकस्य दशमं द्रव्यं प्रकृतिरूपमित्यादि । १७ । अपदं-अन्यच्छन्दोऽधिकारे अन्यच्छन्दोऽभिधानं, यथा-आर्यापदे वैतालीयाभिधानं ॥ १८ ॥ स्वभावहीनं-वस्तुनः स्वभावतोऽन्यथाभिधानं, यथा-शीतो वहिरित्यादि । १९ । व्यवहितंअन्तर्हितं प्रकृतमुत्सृज्याप्रकृतं व्यासतोऽभिधाय पुनः प्रकृतभणनं । २० । कालदोषः-कालव्यत्ययः, यथा-रामो वने विशतीत्यादि ।२१ । यतिदोषः-अस्थानविरतिरविरतिर्वा । २२। छविः-अलङ्कारविशेषस्तेन शून्यं । २३ । समयविरुद्धंच-स्वसिद्धान्तविरोधि, यथा-वैशेषिकस्य सप्तमः पदार्थः प्रकृतिरूपः । २४ । वचनमात्रं-यथा अयं प्रदेशो लोकमध्य
For Private And Personal Use Only